________________ योगविंशिका गाथा-१ 87 HARYAN ततो युक्तमुक्तम् - प्रणिधानादिभावेन परिशुद्धः सर्वोपि धर्मव्यापारः सानुबन्धत्वाद् योगः इति / यद्यप्येवं निश्चयतः परिशुद्धः सर्वोऽपि धर्मव्यापारो योगस्तथापि विशेषेण तान्त्रिकसङ्केतव्यवहारकृतेनासाधारण्येन स्थानादिगत एव धर्मव्यापारो योगः, स्थानाद्यन्यतम एव योगपदप्रवृत्तेः सम्मतत्वादिति भावः / / 1 / / उ० एतद्वयानुबन्धसामग्री कस्य न भवतीत्याह - नेत्यादि / प्रणिधानादयो वक्ष्यमाणा आशया अध्यवसाय-स्थानविशेषास्तेषां संविदनुभूतिस्तस्या व्यतिरेकतोऽभावाद् तत्पुष्टिशुद्विद्वयमनुबन्धि न भवति / तस्मादियमेतदनुबन्धसामग्रीयं च भिन्नग्रन्थेरपूर्वकरणेन कृतग्रन्थिभेदस्य तन्महिम्नैव निर्मलबोधवतः परा प्राधान्यका स्यात् / / 5 / / - षोडशक- 3, सवृत्तिः / / अस्माञ्च सानुबन्धाच्छुद्वयन्तोऽवाप्यते द्रुतं क्रमशः / एतदिह धर्मतत्त्वं परमो योगो विमुक्तिरसः / / 13 / / वृ० - य० अस्माञ्च पूर्वोक्ताद्भावादाशयपञ्चकरूपात्सानुबन्धात् अनुबन्धः सन्तानस्तेन सह वर्त्तते यो भावः स सानुबन्धस्तदविनाभूतः / स चाव्यवच्छिन्नसन्तानस्तस्मादेवंविधाद्भावाच्छुद्वेरन्तः प्रकर्षः शुद्धयन्तोऽवाप्यते प्राप्यते द्रुतमविलम्बितं प्रभूतकालात्ययविगमेन क्रमशः क्रमेणानुपूर्व्या तस्मिन् जन्मन्यपरस्मिन्वा कर्मक्षयप्रकर्षो लभ्यते / ननु चैष एव भावो धर्मपरमार्थ आहोस्विदन्यद्धर्मतत्त्वम् ? इत्यारेकायां परस्य निर्वचनमाह - एतदिह धर्मतत्त्वं अत्र यद्यपि भावस्य प्रस्तुतत्वादेतदित्यत्र पुल्लिङ्गतायामेष इति निर्देशः प्राप्नोति / तथापि धर्मतत्त्वमित्यस्य पदस्य प्रधानापेक्षया नपुंसकनिर्देशोऽर्थस्तु एतदिह प्रस्तुतं भावस्वरूपं धर्मतत्त्वं नान्यत् परमो योग इति / अयं भावः परमो योगो वर्त्तते / स च कीदृक ? विमुक्तिरसः विशिष्टा मुक्तिर्व्विमुक्तिस्तद्विषयो रसः प्रीतिविशेषो यस्मिन्योगे स विमुक्तिरसः विमुक्तौ रसोऽस्येति वा गमकत्वात्समासोऽथवा पृथगेव पदान्तरं न विशेषणं तेनायं भावो विमुक्तौ रसः प्रीतिविशेषो विमुक्तिरस उच्यते / एतदुक्तं भवति - भाव एव धर्मतत्त्वं, भाव एव च परमो योगो, भाव एव च विमुक्तिरस इति / / 13 / / उ० भावाञ्च यत् स्यात्तदाह - अस्माचेत्यादि / अस्माश्याशयपञ्चकरूपाद्भावात्सानुबन्धादव्यवच्छिन्नसन्तानात् क्रमशः क्रमेण तस्मिन् जन्मन्यपरस्मिन् वा द्रुतमविलम्वितं शुद्धेः कर्मक्षयस्यान्तः प्रकर्षोऽवाप्यते एतदिह प्रस्तुतं भावस्वरूपं धर्मतत्त्वं नान्यत् एतदित्यत्र विधेयपदलिङ्गविवक्षया नपुंसकत्वं तेन न भावस्य प्रस्तुतत्वादेष इति निर्देशप्राप्तिः / अयं भावः परमो योगो वर्त्ततेऽध्यात्मगर्भत्वात् / कीदृशो ? विशिष्टो मुक्तौ रसोऽभिलाषो यत्र स तथा अयं भाव एव विशिष्टमुक्ते रस आस्वाद इति वा व्याख्येयम् / / 13 / / - पोडशक -3, सवृत्तिः / / 17| - “प्रकारभेदोऽयं नयकृत इति न कश्चिद्दोषः / / " - अस्मिन्नेव ग्रन्थे गाथा-१७ वृत्तौ दृष्टव्यम् / -- सम्पा० / /