SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 88 योगविंशिका गाथा-२ स्थानादिगतो धर्मव्यापारो विशेषण योग इत्युक्तम्, तत्र के ते स्थानादयः ? कतिभेदं च तत्र योगत्वं ? इत्याह - ठाणुनत्थालंबण-रहिओ तंतम्मि पंचहा एसो / दुगमित्थ कम्मजोगो, तहा तियं नाणजोगो उ / / 2 / / (छाया : स्थानोर्णाालम्बनरहितः' तन्त्रे पञ्चधा एषः / द्वय मत्र' कर्मयोगः तथा त्रयं ज्ञानयोगः तु" / / ) ठाणुन्नत्थेत्यादि / 'स्थीयतेऽनेनेति स्थानं-आसनविशेषरूपं कायोत्सर्गपर्यङ्कवन्धपद्मासनादि सकलशास्त्रप्रसिद्धम्, 1] - संवरियासवदारा अव्वाबाहे अकंटए देसे / काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा / / 1465 / / चेयणमचेयणं वा वत्थु अवलंबिउं घणं मणसा / झायइ सुअमत्थं वा दवियं तप्पजए वावि / / 1466 / / तत्थ उ भणिज कोई झाणं जो माणसो परीणामो / तं न हवइ जिणदिटुं झाणं तिविहेवि जोगमि / / 1467 / / वृ० - साम्प्रतं यथाभूतो यत्र यथावस्थितो यच्च ध्यायति तदेतदभिधित्सुराह - 'संवरियासवदारत्ति / संवृतानि-स्थगितानि आश्रवद्वाराणि प्राणातिपातादीनि येन स तथाविधः, क ध्यायति ? 'अव्यावाधे अकंटए देसे'त्ति' अव्याबाधे-गान्धर्वादिलक्षणभावव्यावाधाविकले / अकण्टके-पाषाणकण्टकादिद्रव्यकण्टकविकले देशे भूभागे, कथं व्यवस्थितो ध्यायति ? - 'काऊण थिरं ठाणं ठितो निस्सणो निवन्नो वा' कृत्वा स्थिरं निष्कम्पं. (अव)स्थानं अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थे, चेतनं पुरुषादि अचेतनं प्रतिमादि वस्तु अवलम्ब्य विषयीकृत्वा(त्य) घनं दृढं मनसा अन्तःकरणेन यत् ध्यायति, किं ? तदाह'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्रं - गणधरादिभिर्वद्धं अर्थं वा-तद्गोचरं, किम्भूतमर्थमत आह - दवियं तप्पज्जवे वावि द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधर्मेरालोचयति, न त्वर्थं, यदा त्वर्थं न तदा सूत्रमिति गाथार्थः / / 1465-1466 / / अधुना प्रागुक्तचोद्यपरिहारायाह - तत्र भणेत् - ब्रूयात् कश्चित्, किं ब्रूयादित्याह - 'झाणं जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, ‘ध्यै चिन्ताया'मित्यस्य चिन्तार्थत्वात् इत्थमाशङ्यो-त्तरमाह - 'तं न भवति जिणदिटुं झाणं तिविहेवि जोगंमि' तदेतन्न भवति यत् परेणाभ्यधायि, कुतः ? यस्माजिनदृष्टं ध्यानं त्रिविधेऽपि योगे मनोवाक्कायव्यापारलक्षण इति गाथार्थः / / 1467 / / - आवश्यकनियुक्तिः सहारिभद्रीयावृत्तिः / / विशेषार्थिना 1476 पर्यन्ता गाथा द्रष्टव्याः / / - सम्पा०॥ 2A - तुला - अथासनान्येवाह - पर्यङ्क-वीर-वज्रा-उब्ज-भद्र-दण्डासनानि च / उत्कटिका गोदोहिका, कायोत्सर्गस्तथासनम् / / 124 / / 10. - पर्यकादिषु प्रत्येकमासनशब्दः सम्बध्यते / 124 / / क्रमेणासनानि व्याचष्टे - स्याङयोरधोभागे पाटोपरि कृते पति ) पर्यको नाभिगोतान-दक्षिणोत्तरपाणिकः / / 12 / /
SR No.004345
Book TitleYogvinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay Gani, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2007
Total Pages214
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy