________________ योगविंशिका गाथा-२ NiwwNNA NNNNNow वृ० - जङ्घयोरधोभागे पादोपरि कृते सति पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र, दक्षिण उत्तर उपरिवर्ती यत्र तत्तथा, एतत् पर्यङ्को नाम शाश्वतप्रतिमानां श्रीमहावीरस्य च निर्वाणकाले आसनम्, यथा पर्यङ्कः पादोपरि भवति तथाऽयमपीति पर्यङ्कः / “जानुप्रसारितबाहोः शयनं पर्यङ्कः” (पातज्जल. तत्त्ववैशारदी 2-46 इति पातञ्जलाः / / 125 / / अथ वीरासनम् - वामोऽह्रिर्दक्षिणोरुर्ध्वं वामोरुपरि दक्षिणः / क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् / / 126 / / कृ० - वामोऽह्रिर्वामपादो दक्षिणोरोरुचं वामस्य चोरोरुपरि दक्षिणोंऽह्रिर्यत्र क्रियते तद्वीराणां तीर्थंकरप्रभृतीनामुचितम्, न कातराणाम् वीरासनं स्मृतम् / अग्रहस्तन्यासः पर्यङ्कवत् / इदं पद्मासनमित्येके / एकस्यैव पादस्य ऊरावारोपणेऽर्धपद्मासनम् / / 126 / / अथ वज्रासनम् - पृष्ठे वज्राकृतीभूते दो• वीरासने सति / गृह्णीयात् पादयोर्यत्राङ्गुष्ठौ वज्रासनं तु तत् / / 127 / / वृ० - उक्तस्वरूपे वीरासने सति पृष्ठे वज्राकाराभ्यां दो पादयोर्यत्राङ्गुष्ठौ गृह्णीयात् तद् वज्रासनम् / इदं बेतालासनमित्यन्ये / / 127 / / सिंहासनाधिरुढस्यासनापनयने सति / तथैवावस्थितिर्या तामन्ये वीरासनं विदुः / / 128 / / वृ० - सिंहासनमधिरुढस्य भूमिन्यस्तपादस्य सिंहासनापनयने सति तथैवावस्थानं वीरासनम् / अन्ये इति - सैद्धान्तिकाः कायक्लेशतपःप्रकरणे व्याख्यातवन्तः / पातज्जलास्त्वाहुः - “ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकश्चाकुञ्चितजानुरुर्ध्वमित्येतद् वीरासनम् / " (पातञ्जल. तत्त्ववैशारदी 2-46 इति)।।१२८ / / अथ पद्मासनम् - जङ्घाया मध्यभागे तु, संश्लेषो यत्र जङ्घया / पद्मासनमिति प्रोक्तं, तदासनविचक्षणैः / / 129 / / वृ० - जङ्घाया वामाया दक्षिणाया वा द्वितीयया जङ्घया मध्यभागे संश्लेषो यत्र तत् पद्मासनम् / / 129 / / अथ भद्रासनम् - सम्पुटीकृत्य.मुष्काग्रे, तलपादौ तथोपरि / पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् / / 130 / / वृ० - स्पष्टम् / यत् पातञ्जलाः - “पादतले वृषणसमीपे सम्पुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात्, एतद् भद्रासनम्” (पातञ्जल. तत्त्ववैशारदी 2-46) / / 130 / / अथ दण्डासनम् - श्लिष्टाङ्गुली श्लिष्टगुल्फी, भूश्लिष्टोरू प्रसारयेत् / यत्रोपविश्य पादौ तद्, दण्डासनमुदीरितम् / / 131 / / वृ० - स्पष्टम् / यत् पातञ्जलाः - “उपविश्य श्लिष्टाङ्गुलीकौ श्लिष्टगुल्फो भूमिश्लिष्टजौ च पादौ प्रसार्य दण्डासनमभ्यस्येत्” (पातञ्जल. तत्त्ववैशारदी 2-46) / / 131 / / अथोत्कटिकासन-गोदोहिकासने - पुतपार्णिसमायोगे, प्राहुरुत्कटिकासनम् / पार्णिभ्यां तु भुवस्त्यागे, तत् स्याद्गोदोहिकासनम् / / 132 / / वृ० - पुतयोः पाणिभ्यां भूमिसंलग्नाभ्यां योगे उत्कटिकासनं प्राहुः, यत्र भगवतः श्रीवीरस्य केवलज्ञानमुत्पन्नम् / यदाह - “जंभियबहि उजुवालिअतीरे विसाहसियदसमिपहरतिगे ! छटेणोक्कडुअट्ठिअस्स केवलं आसि सालतले / / 1 / / "