________________ 90 योगविंशिका गाथा तदेवोत्कटिकासनं गोदोहिकासनं गोदोहकसमाकारत्वात् पाणिभ्यां भुवस्त्यागे सति / इदं च प्रतिमाकल्पिकादीनां विधेयतयोपदिष्टम् / / 132 / / अथ कायोत्सर्गः - प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्यासितस्य वा / स्थानं कायानपेक्षं यत् कायोत्सर्गः स कीर्तितः / / 133 / / वृ० - प्रलम्बितं भुजयोर्द्वन्द्वं यत्र तत्तथा, कायानपेक्षं स्थानं स कायोत्सर्गो नामासनमूर्ध्वस्थस्यासितस्य वा। उर्ध्वस्थितानां कायोत्सर्गो जिनकल्पिकादीनां छद्मस्थतीर्थकराणां च भवति, ते हि ऊर्ध्वर्जव एवासते, स्थविरकल्पिकानां तु ऊर्ध्वस्थितानामासितानां वा उपलक्षणात् शयितानां वा यथाशक्ति भवति, कायोत्सर्ग इति स्थान-ध्यान-मौनक्रियाव्यतिरेकेण क्रियान्तरसम्बन्धिनः कायस्योत्सर्गस्त्याग इत्यर्थः / इदं चासनानां दिक्प्रदर्शनमात्रमुक्तमासनान्तराणामुपलक्षणार्थम्, तथाहि - आम्रकुब्जासनम् आम्राकारतयाऽवस्थितिः, यथा भगवान् महावीर एकरात्रिकी प्रतिमां श्रितः सङ्गमकसुराधमेन विहितां विंशतिमुपसर्गाणामधिसेहे / तथा एकपार्श्वशायित्वम् तच्चोर्ध्वमुखस्याधोमुखस्य तिर्यङ्मुखस्य वा भवति / तथा दण्डायतशायित्वम् ऋजूकृतशरीरस्य प्रसारितजङ्घोरुद्वयस्य चलनरहितस्य तद्भवति / तथा लगण्डशायित्वं मूर्ध्नः पार्योश्च भूमिस्पर्श शरीरेण च भूमेरस्पर्शे तद्भवति / तथा समसंस्थानं यत् पार्ण्यग्रपादाभ्यां द्वयोराकुञ्चितयोरन्योन्यपीडनम् / तथा दुर्योधनासनं यद्भुमिप्रतिष्ठितशिरस उत्पादमवस्थानं कपालीकरणमिति च प्रसिद्धम्, तस्मिन्नेव यदा जड्डे पद्मासनीकृते भवतस्तदा दण्डपद्मासनम् / तथा स्वस्तिकासनं यत्र सव्यमाकुञ्चितं चरणं दक्षिणजङ्घोर्वन्तरे निक्षिपेत् दक्षिणं चाकुञ्चितं वामजबोर्वन्तरे इति / तथा सोपाश्रयं योगपट्टकयोगाद् यद् भवति तथा क्रौञ्चनिष दन-हंसनिषदन-श्वनिषदन-हस्तिनिषदन-गरुडनिषदनादीन्यासनानि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येतव्यानि / तदेवं न व्यवतिष्ठन्ते आसनविधिः / / 133 / / ततः - जायते येन येनेह विहितेन स्थिरं मनः / तत्तदेव विधातव्यमासनं ध्यानसाधनम् / / 134 / / वृ० - मेदस्विनामितरेषां च बलवतामपरेषां च येन येनासनेन कृतेन सात्म्यविशेषात् स्थिरं मनो जायते तत्तदेवासनं ध्यानसाधनत्वेन विधेयम् / यदाह - “सव्वासु वट्टमाणा मुणओ जं देसकालचेट्ठासु / वरकेवलाइलाभं पत्ता बहुसो समिअपावा / / 1 / / तो देसकालचेट्ठानियमो झाणस्स नत्थि समयम्मि / जोगाण समाहाणं जह होइ तहा पयइअव्वं / / 2 / / " __ - ध्यानशतक, गा. 40-41 / / न चैवमासनाभिधानमनर्थकम्, प्रतिमाकल्पिकान् प्रत्यासननियमस्याभिधानात् / / द्वादशसु भिक्षुप्रतिमासु अष्टम्यां प्रतिमायामासननियमो यथा - उत्ताणग पासल्ली नेसज्जी वा वि ठाण ठाइत्ता / सह उस्सग्गे घोरे दिव्वाई तत्थ अविकंपो / / 1 / / नवम्यां यथा - दोश्या वि एरिस छिय बहिआ गामाइआण नवरं तु / उक्कड लगंडसाई दंडाययउ व्व ठाइत्ता / / 2 / / दशम्यां यथा - तश्या वि एक नवरं ठाणं तु तस्स होइ गोदोही / वीरासणमहवा वी ठाइज वि अंबखुज्जो उ / / 3 / / - पञ्चाशके, 18/15-16-17 / / 134 / / - योगशास्त्र-प्रकाश-४, सवृत्तिकः / /