________________ योगविशिका गाथा-२ NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN ANNNNNNNNNNNNNNNNNNNNNN B- स्त्रीपशुक्लीबदुःशील-वर्जितं स्थानमागमे / ___ सदा यतीनामाज्ञप्तं, ध्यानकाले विशेषतः / / 26 / / - स्थिरयोगस्य तु ग्रामेऽ विशेषः कानने वने / तेन यत्र समाधानं, स देशो ध्यायतो मतः / / 27 / / - यत्र योगसमाधानं कालोऽपीष्टः स एव हि / दिनरात्री क्षणादीनां ध्यायिनो नियमस्तु न / / 28 / / - यैवाऽवस्था जिता जातु, न स्याद् ध्यानोपघातिनी / तया ध्यायेनिषण्णो वा, स्थितो वा शायितोऽथवा / / 29 / / - सर्वासु मुनयो देशकालावस्थासु केवलम् / प्राप्तस्तनियमो नाऽऽसां, नियता योगसुस्थता / / 30 / / - अध्यात्मसार, १६-ध्यानस्वरूपाधिकारः / / C - स्थानमिति कशनेन मुद्रा अपि ग्राह्याः / ___ - सम्पा० / / कयपंचंगपणामो, साणंदो वंदणे पयट्टतो / धारेज धीरचित्तो, मुद्दाओ तिन्नि जं भणियं / / 235 / / पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए / वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए / / 236 / / वृ० - पञ्चाङ्गान्यवयवा विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः / प्रणिपातः प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः / यद्यपीह पञ्चाङ्गप्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति द्रष्टव्यम्, मुद्राणामेवाधिकृतत्वात्, तदुक्तं च - पञ्चाङ्ग्या अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद् योगमुद्रावदिति / तथा स्तवपाठः शक्रस्तवादिस्तवनं भवति कर्तव्य इति शेषः / कयेत्याह - योगमुद्रया वक्ष्यमाणलक्षणया / ननु चतुर्विंशतिस्तवादेरेव पाठो योगमुद्रया विधेयो न तु शक्रस्तवस्य, “तं हि समाकुञ्चितवामजानुभूमिविन्यस्तदक्षिणजानुर्ललाटपट्टघटितकरकुड्मल: पठति" इति जीवाभिगमादिष्व-भिधीयत इति ? सत्यम्, केवलं नानन्तरोक्तविशेषणयुक्त एव “तं पठतीति नियमोऽस्ति, “पर्यङ्कासनस्थः शिरोऽधिनिवेशितकरकोरकस्तं पठति" इत्यस्यापि ज्ञाताधर्मकथासु दर्शनात् / तथा हरिभद्राचार्येणापि चैत्यवन्दनवृत्तौ “क्षितिनिहितजामुकरतलो भुवनगुरौ विनिवेशितनयनमानसः प्रणिपातदण्डकं पठति" इत्यस्य विध्यन्तरस्याभिधानात् / ततोऽस्य पाठे विविधविधिदर्शनात् सर्वेषां च तेषां प्रमाणग्रन्थोक्तत्वेन विनयविशेषभूतत्वेन च निषेदुमशक्यत्वाद्योगमुद्रयापि शक्रस्तवपाठो न विरुध्यते, विचित्रत्वान्मुनिमतानाम् / न चैतानि परस्परमतिविरुद्धानि, सर्वैरपि विनयस्य दर्शितत्वादिति तथा 'वंदणत्ति' इहानुस्वारलोपद्रष्टव्यः / तेन वंदणं 'अरिहंतचेइयाणं' इत्यादिदण्डकपाठेन जिनविम्बादिस्तवनम् / जिनमुद्रयोपदेक्ष्यमाणलक्षणया / इयं च पादाश्रिता, योगमुद्रा च हस्ताश्रितेत्युभयोर्वन्दने प्रयोगः / तथा प्रणिधानं शुभार्थप्रार्थनारूपं विशिष्टचित्तैकाग्रतागर्भं 'जय वीयराय' इत्यादिपाठरूपं मुक्ताशुक्त्या निर्देक्ष्यमाणमुद्रया कर्तव्यम् / इति गाथार्थः / / 17 / / (पञ्चाशक-३/१७) दो जाणू दोन्नि करा, पंचमयं होइ उत्तमंगं तु / सम्मं संपणिवाओ, नेओ पंचंगपणिवाओ / / 237 / / वृ० - जानुनी अष्ठीवन्तौ / द्वौ करौ हस्तौ / पञ्चममेव पञ्चमकं / भवति वर्तते / उत्तमाङ्गं तु शिर एव / इत्यनेन पञ्चाङ्ग इति व्याख्यातम् / अथ प्रणिपातव्याख्यानायाह-एतैरेव पञ्चभिरङ्गैः / सम्यक् - भक्तितो भून्यासतः यः सम्प्रणिपातः - प्रणामोऽसौ / ज्ञेयो ज्ञातव्यः / पञ्चाङ्गप्रणिपातः पूर्वोक्तनिर्वचनः / इति गाथार्थः / (पञ्चाशक-३/१८)