________________ योगविंशिका गाथा-२ NNNNNNNNNNNNNNNNNNNNNNNNNNNNNove अन्नोन्नतरियंगुलिकोसागारेहिं दोहिं हत्थेहिं / पिट्टोवरि कुप्परसंठिएहिं तह जोगमुद्द त्ति / / 238 / / वृ० - ‘अण्णोण्णे' त्यादि / अन्योन्येन परस्परेणान्तरिता व्यवहिता अङ्गुलयः करशाखा ययोस्तौ तथा तौ कोशाकारौ च कमलकोरकाकृती उभयजोडनेनान्योन्यान्तरिताङ्गुलिकोशाकारौ ताभ्यां, द्वाभ्यां हस्ताभ्यां - कराभ्यां - करणभूताभ्यां / पुनः किम्भूताभ्याम् ? पिट्टस्य-उदरस्योपरि-ऊर्श्वभागे कूर्पराभ्यां कुहणिकाभ्यां संस्थितौ व्यवस्थितौ यौ तौ तथा ताभ्यां पिट्टोपरिकूर्परसंस्थिताभ्यां / तथा तेन प्रकारेणाचरणागम्येन / अथवा पञ्चाङ्ग-प्रणिपातापेक्षया समुच्चयार्थस्तथाशब्दः / योगो हस्तयोर्योजनविशेषः समाधिर्वा, तत्प्रधाना मुद्राऽङ्गन्यास-विशेषो विघ्नविशेषव्यपोहनसमर्थो योगमुद्रा / भवतीति गम्यते / इतिशब्दो योगमुद्रालक्षणसमाप्तिसंसूचक उपप्रदर्शनार्थो वा / इत्येवम्प्रकारा योगमुद्रेत्यर्थः / इति गाथार्थः / (पञ्चाशक-३/१९) चत्तारि अंगुलाई, पुरओ ऊणाई जत्थ पच्छिमओ / पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा / / 239 / / वृ० - चत्वारीति सङ्ख्या / अङ्गुलानि प्रतीतानि / तानि च स्वकीयान्येव / पुरतोऽग्रतः / तथा ऊनानि किञ्चिदूनानि अङ्गलान्येव / यत्र यस्यां मुद्रायां / पश्चिमतः पश्चिमभागे / पादयोश्चरणयोः, उत्सर्गः परस्परपरित्यागः संसर्गाभावोऽन्तरमित्यर्थः / एषाऽसौ पुनःशब्दो योगमुद्रापेक्षया जिनमुद्राया वैलक्षण्यप्रतिपादनार्थः / भवति सम्पद्यते / जिनानामर्हतां कृतकायोत्सर्गाणां सत्का, जिना वा विघ्नजेत्री मुद्राऽङ्गन्यासविशेषो जिनमुद्रा / इति गाथार्थः / (पञ्चाशक-३/२०) मुत्तासुत्ती मुद्दा, समा जहिं दो वि गल्भिया हत्था / ते पुण णिडालदेसे, लग्गा अन्ने अलग्ग त्ति / / 240 / / वृ० - मुक्ताशुक्तिरिव मुक्ताशुक्तिः / मुद्रा प्रतीता / इह स्थाने सा भवतीति वाक्यशेषो दृश्यः / समी नान्योन्यान्तरिताङ्गलितया विषमौ / यस्यां मुद्रायां भवतः / ततः गर्भिताकुन्नतमध्यौ न तु नीरन्ध्रौ / हस्तौ पाणी / इहैव लक्षणशेषमाह - तौ मुक्ताशुक्तिविधायको हस्तौ / पुनः शब्दो लक्षणान्तरत्वद्योतनार्थः / ललाटदेशे भाललक्षणे शरीरभागे / लग्नौ सम्बद्धौ कार्यो / अन्ये त्वपरे पुनराचार्याः / अलग्नावसम्बद्धौ ललाटदेश एव / इति एतत् आहुरिति शेषः / इति गाथार्थः / (पञ्चाशक-३/२१) चोयगो - वन्नाइसु उवओगो, जुगवं कह घडइ एगसमयम्मि ? / दो उवओगा समए, केवलिणो वि हुन जंइट्ठा / / 241 / / आयरिओ - कमसो वि संभवंता, जुगवं नजति ते वि भिन्ना वि / चित्तस्स सिग्घकारित्तणेण एगत्तभावाओ / / 242 / / भणियं च - सव्वत्थ वि पणिहाणं, तग्गयकिरिया-भिहाण-वनेसु / अत्थे विसए य तहा, दिद्रुतो छिन्नजालाए / / 243 / / वृ० - सर्वत्रापि समस्तायामपि वन्दनायां / न केवलं तदन्त एवेत्यपिशव्दार्थः / प्रणिधानं चित्तस्योपयोगः कार्य भवतीति शेषः / सामस्त्यमेव व्यक्तित आह - तत्र वन्दनायां गता आश्रितास्तद्गतास्ते च क्रियाभिधानवर्णाश्चेति विग्रहः / अतस्तेषु तत्र क्रिया मुद्राविन्यास-मुखस्थगन-भूप्रमार्जन-कायोत्सर्ग-करणादिका, अभिधानानि पदानि, वर्णास्तदेकदेशा अकारादयः / उत्तरस्तथाशब्दः समुञ्चयार्थोऽत्र द्रष्टव्यः / अर्थे अर्हदादिपदाभिधेये / तद्गते इति विशेषणमिहाप्यनुसतव्यम् / विषये वन्दनाया गोचरे दृष्टिगोचरे वा जिनविम्वे / चशब्द: समुच्चयार्थ एव /