________________ योगविंशिका गाथा-२ अथैकदैकजीवस्यानेकोपयोगाभावान्न सर्वत्र क्रियादौ प्रणिधानं भवतीत्याशङ्क्याह - दृष्टान्तो निदर्शनम् छिन्नज्वालया इन्धनस्थाग्नित्रुटितार्चिषा / इहेति शेषः, अयमर्थः - यथा छिन्नज्वालामूलज्चालायामसम्बद्धतयोपलभ्यमानापि कथञ्चित्सम्बद्धेति प्रतिपद्यते तत्परमाणूनां परिणामान्तरापन्नानामवश्यंभावात् / यथा वा गृहान्तर्गतस्य दीपस्य गृहद्वारनिर्गता प्रभा व्यक्ततयाऽनुपलभ्यमानाप्यस्तीति प्रतिपद्यते, गृहान्तराभ्यन्तरे तस्या उपलभ्यमानत्वात् / इह च पक्षे प्रभा ज्वालोच्यते, सा च च्छिन्नाऽन्तरालेऽनुपलब्धेरिति / एवं क्रियादीनामेकत्रोपलभ्यमानमपि प्रणिधानमन्यत्राप्यव्यक्ततयाऽवसेयमिति / अथवा छिन्नज्वाला अलातज्वाला / तस्याः प्रतिनियतदेशवर्तित्वेन च्छिन्नत्वात / सा च यथा नियतदेशस्थायि भ्राम्यमाणेऽलाते चक्राकारं दण्डाकारं वा दधती स्वावगाहक्षेत्रादन्यत्राप्याशुवृत्तेरवभासते / एवं प्रणिधानमपि स्वरूपेणैकत्र वर्तमानमाशु-वृत्तेः सर्वत्रावभासत इत्यत्र साधूक्तं सव्वत्थ वि पणिहाणमिति गाथार्थः / (पञ्चाशक-३/२२) अहवा - केवलिणो उवओगो, वइ जुगवं समत्थनेएसु / छउमत्थस्स व एवं, अभिन्नविसयासु किरियासु / / 244 / / तथा चागमः - भिन्नविसयं निसिद्धं, किरियादुगमेगया न एगम्मि / जोगतिगस्स वि भंगियसुत्ते किरिया जओ भणिया / / 245 / / वृ० - इह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा, यथोत्प्रेक्षते सूत्रार्थं नयादिगोचरमटति च, तत्रोत्प्रेक्षायां यदोपयुक्तो न तदाटने, यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद्, विलक्षणविषया (? अविलक्षणविषया) तु. योगत्रयक्रियाऽप्यविरुद्धा, यथोक्तम् - ‘भंगियसुयं गुणतो वट्टइ तिविहेऽवि जोगंमी' त्यादि, (आवश्यकसूत्रनियुक्तिगाथा-१२२७) - चैत्यवन्दन महाभाष्यम् / / 'D - पंच ठाणाई भवंति, तं० - ठाणातिते उक्कडुआसणिए पडिमट्ठाती वीरासणिए णेसज्जिए, पंच ठाणाइ० भवंति, तं० दंडायतिते लगंऽसाती आतावते अवाउडते अकंडूयते (सू. 396) ... पंच निसिज्जाओ पं. तं० उक्कुडुती गोदोहिता समपायपुता पलितंका अद्धपलितंका / ... (सू. 400) __ - श्री स्थानांगसूत्रम् / / E - इदानीमेतामेव द्वारगाथां विशेषेण व्याख्यानयन्नाह - उडनिसीयतुयट्टण ठाणं तिविहं तु होइ नायव्वं / उर्ल्ड उच्चाराई गुरुमूलपडिक्कमागम्म / / 152 / / वृ० तत्र स्थानं त्रिविधं ज्ञातव्यं - ऊर्ध्वस्थानं, निषीदनस्थानं त्वग्वर्त्तनस्थानं च, तत्राद्यमूर्ध्वस्थानं व्याख्यानयन्नाह - ‘उड्ढे उच्चाराई' ऊर्ध्वस्थानकं कायोत्सर्गः, स च उच्चारादीन् कृत्वा, ... / उक्तमूर्ध्वस्थानं इदानीं निषीदनस्थानं प्रतिपादयन्नाह - . संडासं पमज्जित्ता पुणो वि भूमि पमज्जिआ निसीए / राओ य पुव्वभणिअं तुयट्टणं कप्पई न दिवा / / 155 / / वृ० संदंशं - जङ्घोऊरन्तरालं तं प्रमृज्य उत्कुटुकः स्थित्वा पुनर्भुवं प्रभृज्य निषीदेत् / उक्तं निषीदनस्थानं, इदानीं त्वग्वर्तनस्थानं प्रतिपादनायाह - रात्रौ पूर्वोक्तमेव त्वग्वर्त्तनं, दिवा पुनस्त्वग्वर्त्तनं न कल्पते, नोक्तं भगवद्भिः , ... / / - ओघनियुक्तिः सवृत्तिः / / F- विशेप द्रष्टुकामेन पू. मु. जम्बूविजयजी म. सम्पादित योगशास्त्र ग्रन्थ - चतुर्थप्रकाश - प. क्र. 956 तः 959 'टीप्पणी द्रष्टव्या / - सम्पा० / /