________________ योगविंशिका गाथा-२ NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN NNNNNA NA MANANANANMANI ऊर्णः शब्दः स च क्रियादावुचार्यमाणसूत्रवर्णलक्षणः,' अर्थः शब्दाभिधेयव्यवसायः, आलम्बनं-बाह्यप्रतिमादिविषयध्यानम्, एते चत्वारो भेदाः, रहितः इति रूपिद्रव्यालम्बनरहितो निर्विकल्पचिन्मात्रसमाधिरूपः, इत्येवं एषः योगः, पञ्चविधः तन्त्रे योगप्रधानशास्त्रे, प्रतिपादित इति शेषः / / उक्तं च - 4“स्थानोर्णार्थालम्बन-तदन्ययोगपरिभावनं सम्यक् / ___ परतत्त्वयोजनमलं, योगाभ्यास इति समयविदः / / " [षो० 13-4] इति / 3] - जं वाइद्धं वञ्चामेलियं हीणक्खरियं अञ्चक्खरियं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुठुदिनं दुट्ठपडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं। वृ... एतानि चतुर्दश सूत्राणि, श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथाव्याविद्धं विपर्यस्तरत्नमालावद्, अनेन प्रकारेण याऽऽशातना तथा हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया. एवमन्यत्रापि योज्या. व्यत्यानेडितं-कोलिकपायसवत. हीनाक्षरम-अक्षरन्यनम. अत्यक्षरम-अधिकाक्षरं. पदहीनं-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, घोषहीनम्-उदात्तादिघोषरहितं, योगरहितंसम्यगकृतयोगोपचारं, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न कृतः स्वाध्यायः-यो यस्याऽऽत्मीयोऽध्ययनकाल उक्त इति, अस्वाध्यायिके स्वाध्यायितं / ....तथा स्वाध्यायिके अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं / इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति पूर्ववत् / - आव. सूत्र, हारि. वृत्तिः / / [4] - वृ० य० - स्थीयतेऽनेनेति स्थानमासनविशेषरूपं कायोत्सर्गपर्यङ्कबन्धपद्मासनादिसकलशास्त्रसिद्धम् / ऊर्णः शब्दः स च वर्णात्मकः / अर्थः शब्दस्याभिधेयमालम्बनं बाह्यो विषयः प्रतिमादिस्तस्मादालम्बनादन्यस्तद्विरहितस्वरूपोऽनालम्बन इति यावत् / स्थानं चोर्णश्चार्थश्चालम्बनं च तदन्यश्चैत एव योगास्तेषां परिभावनं सर्वतोऽभ्यसनं सम्यक्समीचीनं परं तत्त्वं योजयतीति परतत्त्वयोजनं, मोक्षेण योजनादलमत्यर्थं योगस्य योगाङ्गरूपस्य ध्यानस्य वाभ्यासः परिचयो योगाभ्यासः इतीत्थं तत्त्वविदोऽभिवदन्ति (विन्दति) / कथं पुनः स्थानादीनां योगरूपत्वं येन तत्परिभावनं योगाभ्यासो भवेत् ? उच्यते - योगाङ्गत्वेन, योगाङ्गस्य च शास्त्रेषु योगरूपताप्रसिद्धेहेतुफल-भावेनोपचारात् / योगाङ्गत्वं तु स्थानादीनां प्रतिपादितमेव योगशास्त्रेषु / यथोक्तम् “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि” (पातञ्जलयोग० द० 2-29) / / / 4 / / उ० योगाभ्यासमाह - स्थानेत्यादि / स्थीयते अनेनेति स्थानमासनविशेषः कायोत्सर्गपर्यङ्कवन्धादि-रूपः / उर्णः शब्दः / अर्थस्तदभिधेयमालम्बनं बाह्यो विषयः प्रतिमादिस्तस्मादालम्बनादन्योऽनालम्बन इति यावत् तेषां परिभावनं सर्वतोऽभ्यसनं सम्यक् समीचीनं परतत्त्वं मोक्षलक्षणं योजयति यत्तत्तथा एतद् योगाभ्यास इति तत्त्वविदो विदन्ति योगस्य ध्यानरूपस्याभ्यास इति कृत्वा / यदि चित्तवृत्तिनिरोधो योगलक्षणं तदा स्थानादीनां योगाङ्गत्वेपि योगत्वोपचारो यदि च मोक्षयोजकव्यापारित्वमात्रं तदा नोपचार इति ध्येयम् / / 4 / / - षोडशक - 13, वृत्तिः / / 15 - षोडशकवृत्तौ ‘समयविदः' इति स्थाने 'तत्त्वविदः' इति पाठोऽभिमतोऽस्ति / - सम्पा० / /