________________ योगविंशिका गाथा-२,३ स्थानादिषु योगत्वं च “मोक्षकारणीभूतात्मव्यापारत्वं योगत्वम्” इति योगलक्षणयोगादनुपचरितमेव / यत्तु “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्य" / / (पातं. यो० द० 2-29) इति योगाङ्गत्वेन योगरूपता स्थानादिषु हेतुफलभावेनोपचारादभिधीयत इति षोडशकवृत्तायुक्तं तत् “चित्तवृत्तिनिरोधो योगः” (पातं. यो० द० 1-2) इति योगलक्षणाभिप्रायेणेति ध्येयम् / __ अत्र स्थानादिषु द्वयं स्थानोर्णलक्षणं कर्मयोग एव, स्थानस्य साक्षाद्, ऊर्णस्याप्युञ्चार्यमाणस्यैव ग्रहणादुञ्चारणांशे क्रियारूपत्वात् / तथा त्रयं अर्थालम्बननिरालम्बनलक्षणं ज्ञानयोगः, तुः एवकारार्थ इति ज्ञानयोग एव, अर्थादीनां साक्षाद् ज्ञानरूपत्वात् / / 2 / / ' एष कर्मयोगो ज्ञानयोगो वा कस्य भवतीति स्वामिचिन्तायामाह - देसे सव्वे य तहा, नियमेणेसो चरित्तिणो होइ / इयरस्स बीयमित्तं, इत्तु चिय केइ इच्छंति / / 3 / / (छाया : देशतः' सर्वतश्च तथा नियमेन एषः' चारित्रिणः भवति / इतरस्य बीजमात्रं, इत एव केचिद् इच्छन्ति'२ / / ) 6- योगश्चित्तवृत्तिनिरोधः / / 12 / / भा० - सर्वशब्दाग्रहणात् सम्प्रज्ञातोऽपि योग इत्याख्यायते / चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम् / प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति / तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति / तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति। तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति / तत् परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः / चितिशक्तिरपरिणामिन्यप्रतिसङ्कमा दर्शितविषया शुद्धा चानन्ता च; सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्याति इत्यतस्तस्यां विरक्तं चित्तं तामपि ख्याति निरुणद्धि / तदवस्थं संस्कारोपगं भवति / स निर्वीजः समाधिः / न तत्र किञ्चित् सम्प्रज्ञायत इत्यसम्प्रज्ञातः / द्विविधः स योगश्चित्तवृत्तिनिरोध इति / / 2 / / .. वृ० - य० सर्वशब्दाग्रहणेप्यर्थात्तल्लाभादव्याप्तिः सम्प्रज्ञात इति “क्लिष्टचित्तवृत्तिनिरोधो योगः” इति लक्षणं सम्यग्, यद्वा “समितिगुप्तिसाधारणं धर्मव्यापारत्वमेव योगत्वम्” इति त्वस्माकमाचार्याः / तदुक्तम् - 'मुक्खेण जोयणाओ जोगो सव्वो वि धम्मवावारो” (योगविंशिका गा. 1) - पू.उ. श्री यशोविजयगणिप्रणीता पातञ्जलयोगसूत्रभाष्यवृत्तिः / / 7] - (स्थानादियोगानां जपविषये घटमानता) तत्र च यत्कृत्यान्तरं तदाह -