________________ योगविंशिका गाथा-३ NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNA देसे सव्वे य त्ति / सप्तम्याः पञ्चम्यर्थत्वादेशतस्तथा सर्वतश्च, चारित्रिण एव एषः प्रागुक्तः स्थाना दि-रूपो योगः, नियमेन इतरव्यवच्छेदलक्षणेन निश्चयेन भवति, क्रियारूपस्य ज्ञानरूपस्य वाऽस चारित्रमोहनीयक्षयोपशमनान्तरीयकत्वात्, अत एवाध्यात्मादियोगप्रवृत्तिरपि चारित्रप्राप्तिमारभ्यैः ग्रन्थकृता योगबिन्दौ प्ररूपिता, तथाहि - “देशादिभेदतश्चित्र-मिदं चोक्तं महात्मभिः / अत्र पूर्वोदितो योगो-ऽध्यात्मादिः सम्प्रवर्त्तते / / 357 / / " इति / देशादिभेदतः देशसर्वविशेषाद् इदं चारित्रं, अध्यात्मादि: अध्यात्म 1 भावना 2 आध्यानं 3 समता 4 वृत्तिसङ्क्षयश्च 5 / तत्राध्यात्मम् - उचितप्रवृत्तेतभृतो मैत्र्यादिभावगर्भ शास्त्राज्जीवादितत्त्वचिन्तनम् 1 / / विधाने चेतसो वृत्तिस्तद्वर्णेषु तथेष्यते / अर्थे चालम्बने चैव, त्यागश्चोपप्लवे सति / / 385 / / वृ० विधाने - जपविषये चेतसो-मनसो वृत्तिः 'तद्वर्णेषु' सन्मन्त्राक्षररूपेषु तथा इति समुच्चये इष्यते मन्यते मतिमद्भिः अर्थे चाभिधेये आलम्बने चैव प्रतिमादौ चेतसोवृत्तिः / त्यागश्चोपसंहारः पुनर्जपस्य उपप्लवे मनोविस्रोतसिका रूपे सति / / 385 / / ___- योगबिन्दुः सवृत्तिकः / / |1] - अथ प्रकृतयोगसन्धानार्थमाह - वृ० देशादिभेदतो / देशसर्वविशेषात् चित्रं - नानारूपम् इदं चैतत्पुनश्चारित्रम् उक्तं महात्मभिस्तीर्थकरगणधरादिभिः / ततः किमित्याह अत्र - चारित्रे सति जीवस्य, पूर्वोदितः ग्रन्थिविभागोक्तः योगोऽध्यात्मादिः' अध्यात्मभावनाध्यानादिः सम्प्रवर्तते स्वरूपं लभत इति / / 357 / / -- योगविन्दुवृत्तिः / / [2] - A - तुला - योगमार्गमेव भेदतोऽभिव्यनक्ति - . B - अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः / मोक्षेण योजनाद्योग एष श्रेष्ठो यथोत्तरम् / / 31 / / वृ० - १-अध्यात्म २-भावना ३-ध्यानं ४-समता ५-वृत्तिसंक्षयः / किमित्याह - मोक्षेण सह योजनात् संयोगकरणात् योग एष उक्तभेदः श्रेष्ठो भावरूपतया निरुपचरितः, यथोत्तरं यो यस्योत्तर इति / / 31 / / - योगबिन्दुः सवृत्तिकः / / अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः / योगः पञ्चविधः प्रोक्तो योगमार्गविशारदैः / / 1 / / वृ० - अध्यात्ममिति - व्यक्तः / / 1 / / ___- द्वा. द्वा., 18 - योगभेदद्वात्रिंशिका सवृत्तिः / / 3- तुला - A - अमुमेव क्रमेण व्याचष्टे - औचित्याद् वृत्तयुक्तस्य, वचनात्तत्त्वचिन्तनम् / मैत्र्यादिसारमत्यन्तमध्यात्म तद्विदो विदुः / / 358 / / वृ० . औचित्यादुचितप्रवृत्तिरूपात् वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य / वचनाजिनप्रणीतात् तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम् / मैत्र्यादिसारं मैत्रीप्रमोदकरुणामाध्यस्थ्यप्रधानं सत्त्वादिपु अत्यन्तमतीव / किमित्याह - अध्यात्म - योगविशेपं, तद्विदः अध्यात्मज्ञातारः विदुः जानते / / 358 / /