________________ योगविंशिका गाथा-३ HNNNNNNNNNNA भावना - अध्यात्मस्यैव प्रतिदिनं प्रवर्धमानश्चित्तवृत्तिनिरोधयुक्तोऽभ्यासः 2 / अथास्य फलमाह - अतः पापक्षयः सत्त्वं, शीलं ज्ञानं च शाश्वतम् / तथानुभवसंसिद्धममृतं ह्यद एव तु / / 359 / / वृ० - अतोऽध्यात्मात् पापक्षयो ज्ञानावरणादिक्लिष्टकर्मप्रलयः सत्त्वं वीर्योत्कर्षः शीलं चित्तसमाधिः ज्ञानं च वस्त्ववबोधरूपम्, शाश्वतमप्रतिपाति शुद्धरत्नतेजोवत्, तथेति वक्तव्यान्तरसमुच्चये, अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं तवृत्तम् अमृतं पीयूषम् हि स्फुटम् अद एव तु इदमेवाध्यात्मं पुनः, अतिदारुणमोहविषविकारनिराकारकत्वादस्येति / / 359 / / . - योगबिन्दुः सवृत्तिकः / / _B - औचित्याद् वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् / मैत्र्यादिभावसंयुक्तमध्यात्म तद्विदो विदुः / / 2 / / वृ० - औचित्यादिति / औचित्या चितप्रवृत्तिलक्षणात् वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य / वचनाज्जिनागमात् तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनं / मैत्र्यादिभावैर्मैत्रीकरुणामुदितोपेक्षालक्षणैः समन्वितं सहितं अध्यात्मं तद्विदोऽध्यात्मज्ञातारो विदुर्जानते / / 2 / / अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् / तथानुभवसंसिद्धममृतं ह्यद एव तु / / 8 / / अत इति / अत्रोऽध्यात्मात् / पापक्षयो ज्ञानावरणादिक्लिष्टकर्मप्रलयः / सत्त्वं वीर्योत्कर्षः / शीलं चित्तसमाधिः / ज्ञानं च वस्त्ववबोधरूपं / शाश्वतमप्रतिघं / तथेति वक्तव्यान्तरसमुञ्चये / अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं / अमृतं पीयूषं / हि स्फुटं / अद एवाध्यात्ममेव तु अतिदारुणमोहविषविकारनिराकारकत्वादस्येति / / 8 / / __- द्वा. द्वा., 18 - योगभेदद्वात्रिंशिका सवृत्तिः / / [4] - तुला - A - अभ्यासोऽस्यैव विज्ञेयः, प्रत्यहं वृद्धिसङ्गतः / मनःसमाधिसंयुक्तः, पौनःपुन्येन भावना // 360 / / वृ० अभ्यासो ऽनुवर्तनम् अस्यैवाध्यात्मस्य विज्ञेयः प्रत्यहं प्रतिदिवसम् वृद्धिसङ्गतः समुत्कर्षमनुभवन् मनःसमाधिसंयुक्तश्चित्तनिरोधयुक्तः, कथमित्याह - पौनःपुन्येन भूयोभूय इत्यर्थः, भावना द्वितीयो योगभेद इति / / 360 / / अर्थतत्फलमाह - निवृत्तिरशुभाभ्यासाच्छुभाभ्यासानुकूलता / तथा सुचित्तवृद्धिश्च, भावनायाः फलं मतम् / / 361 / / वृ० - निवृत्तिरुपरतिः अशुभाभ्यासात् कामक्रोधादिगोचरात् शुभाभ्यासानुकूलता-ज्ञानादिविषयशुभाभ्यासानुकूलभावः तथा सुचित्तवृद्धिश्च सत्प्रकारशुद्धचित्तसमुत्कर्षरूपा किमित्याह - भावनायाः फलं मतं इति / / 361 / / - योगबिन्दुः सवृत्तिकः / / अभ्यासो वृद्धिमानस्य भावना बुद्धिसङ्गतः / निवृत्तिरशुभाभ्यासाद्भाववृद्धिश्च तत्फलम् / / 6 / / अभ्यास इति / (प्रत्यहं प्रतिदिवस) वृद्धिमानुत्कर्षमनुभवन् बुद्धिसङ्गतो ज्ञानानुगतः अस्याध्यात्मस्य अभ्यासोऽनुवर्तनं भावनोच्यते / अशुभाभ्यासात् कामक्रोधादिपरिचयात् निवृत्तिरुपरतिः भाववृद्धिश्च शुद्धसत्त्वसमुत्कर्षरूपा / तत्फलं भावनाफलम् / / 6 / / ज्ञानदर्शनचारित्रतपोवैराग्यभेदतः / इष्यते पञ्चधा चेयं दृढसंस्कारकारणम् / / 10 / /