________________ 98 योगविंशिका गाथा-३ 'आध्यानं - प्रशस्तैकार्थविषयं स्थिरप्रदीपसदृशमुत्पातादिविषयसूक्ष्मोपयोगयुतं चित्तम् 3 / "समता - 'अविद्याकल्पितेष्टानिष्टत्वसज्ञापरिहारेण शुभाशुभानां विषयाणां तुल्यताभावनम् 4 / वृ० - ज्ञानेति / इयं च भावना भाव्यमानज्ञानादिभेदेनावश्यकभाष्यादिप्रसिद्धा पञ्चधेष्यते / दृढस्य झटित्युपस्थितिहेतोः संस्कारस्य कारणं / भावनाया एव पटुतरभावनाजनकत्वनियमात् / / 10 / / - द्वा. द्वा., 18 - योगभेदद्वात्रिंशिका सवृत्तिः / / 5- तुला - A- शुभकालम्बनं चित्तं, ध्यानमाहुर्मनीषिणः / स्थिरप्रदीपसदृशं, सूक्ष्माभोगसमन्वितम् / / 362 / / वृ० - शुभकालम्बनं / प्रशस्तैकार्थविषयं चित्तम् ध्यानं धर्मध्यानादि आहुर्मनीषिणः / स्थिरप्रदीपसदृशं - निर्वातगृहोदरज्वलत्प्रदीपप्रतिमम् सूक्ष्माभोगसमन्वितमुत्पादादिविषयसूक्ष्मोपयोगयुतम् / / 362 / / .. अर्थतत्फलम् - वशिता चैव सर्वत्र, भावस्तैमित्यमेव च / अनुबन्धव्यवच्छेद उदर्कोऽस्येति तद्विदः / / 363 / / वृ० - वशिता चैवात्मायत्तमेव सर्वत्र कार्ये भावस्तैमित्यमेव च स्तिमितभावतैव अनुबन्धव्यवच्छेदो . भवान्तरारम्भकाणामितरेषां च कर्मणां बन्धाभावकरणमित्यर्थः उदर्कः फलम् अस्य - ध्यानस्य इत्येतदाहुः तद्विदो ध्यानफलविदः / / 363 / / . - योगबिन्दुः सवृत्तिकः / / B - उपयोगे विजातीयप्रत्ययाव्यवधानभाक् / शुभैकप्रत्ययो ध्यानं सूक्ष्माभोगसमन्वितम् / / 11 / / वृ० - उपयोग इति / उपयोगे स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने / विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसञ्चारेणालक्ष्यकालेनाप्यव्यवधानभागनन्तरितः शुभैकप्रत्ययः प्रशस्तैकार्थबोधो ध्यानमुच्यते / सूक्ष्माभोगेनोत्पातादिविषयसूक्ष्मालोचनेन समन्वितं सहितम् / / 11 / / खेदोद्वेगभ्रमोत्थानक्षेपासङ्गान्यमुद्रुजाम् / त्यागादष्टपृथचित्तदोषाणामनुबन्ध्यदः / / 12 / / वृ० - खेदेति / खेदादीनां वक्ष्यमाणलक्षणानां अष्टानां पृथञ्चित्तदोषाणाम् योगिमनोदोषाणाम् त्यागात् परिहारात् अदो ध्यानं अनुबन्धि उत्तरोत्तरवृद्धिमद्भवति / यद्यप्यन्यत्र “खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः / युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान्” इत्येवं क्रमोऽभिहितस्तथाप्यत्र बन्धानुलोम्याद् व्यत्ययेनाभिधानमिति द्रष्टव्यम् / / 12 / / वशिता चैव सर्वत्र भावस्तैमित्यमेव च / अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः / / 21 / / . वृ० - वशितेति / सर्वत्र कार्ये / वशिता चैवात्मायत्ततैव / भावस्यान्तःकरणपरिणामस्य स्तैमित्यमेव च निश्चलत्वमेव / अनुबन्धव्यवच्छेदो भवान्तरारम्भकाणामितरेषां च कर्मणां वन्ध्यभावकरणं चेत्येतद्ध्यानफलं विदुर्जानते ध्यानफलविदः / / 21 / / - द्वा. द्वा., 18 - योगभेदद्वात्रिंशिका सवृत्तिः / / 6- तुला - A अविद्याकल्पितेषूचैरिष्टानिष्टेषु वस्तुषु / सज्ञानात् तद्व्युदासेन, समता समतोच्यते / / 364 / / वृ० - अविद्याकल्पितेषु - अनादिवितथवासनावशोत्पन्नविकल्पितशरीरेषु उचैः - अतीव इष्टानिष्टेष्विन्द्रियमनःप्रमोदप्रदायिषु तदितरेषु च वस्तुषु-शब्दादिषु सज्ञानात् - "तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य / निश्चयतोऽस्याऽनिष्टं वा, न विद्यते किञ्चिदिष्टं वा / " (प्रशमरति-५२) इत्यादिभावनारूपाद्विवेकात् तद्व्युदासेनेष्टानिष्टवस्तुपरिहारेण या समता तुल्यरूपता मनसः, सा समता प्रागुपन्यस्तोच्यते / / 364 / /