________________ योगविंशिका गाथा-३ अर्थतत्फलम् - ऋद्ध्यप्रवर्तनं चैव, सूक्ष्मकर्मक्षयस्तथा / अपेक्षातन्तुविच्छेदः, फलमस्याः प्रचक्षते / / 365 / / वृ० - ऋद्धीनां आमर्पोषध्यादीनामनुपजीवनेनाऽप्रवर्तनमव्यापारणम्, सूक्ष्मकर्मक्षयः सूक्ष्माणां केवलज्ञानदर्शनयथाख्यातचारित्राद्यावारकाणां कर्मणां क्षयः, चैवेति तथेतिशब्दावुक्तसमुञ्चये / तथा, अपेक्षातन्तुविच्छेदोऽपेक्षैव बन्धहेतुत्वात्तन्तुरपेक्षातन्तुस्तद्व्यवच्छेदः फलमस्याः समतायाः ‘प्रचक्षते' विचक्षणा इति / / 365 / / - योगबिन्दुः सवृत्तिकः / / B - व्यवहारकुदृष्ट्योच्चैरिष्टानिष्टेषु वस्तुषु / कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते / / 22 / / वृ० - व्यवहारेति / व्यवहारकुदृष्ट्याऽनादिमत्या वितथगोचरया कुव्यवहारवासनयाऽविद्या पराभिधानया / उञ्चैरतीव / कल्पितेषु इष्टानिष्टेषु इन्द्रियमनःप्रमोददायिषु तदितरेषु च वस्तुषु शब्दादिषु / विवेकेन “तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य / निश्चयतोऽस्यानानिष्टं न विद्यते किञ्चिदिष्टं वे”त्यादिनिश्चयालोचनेन / तत्त्वधीरिष्टानिष्टत्वपरिहारेण तुल्यताधीरुपेक्षालक्षणा समतोच्यते / यदुक्तम् - “अविद्याकल्पितेषू चैरिष्टानिष्टेषु वस्तुषु / सञ्ज्ञानात्तद्व्युदासेन समता समतोच्यते / / 364 / / " (योगबिन्दौ) / / 22 / / विनतया न हि ध्यानं ध्यानेनेयं विना च न / ततः प्रवृत्तचक्रं स्यावयमन्योऽन्यकारणात् / / 23 / / वृ० - विनेति / एतया समतया विना हि ध्यानं न स्यात्, चित्तव्यासङ्गेऽनुपरमात् / ध्यानेन विना चेयं समता न भवति, प्रतिपक्षसामग्र्या बलवत्त्वात् / अतो द्वयं ध्यानसमतालक्षणं अन्योऽन्यकारणात् प्रवृत्तचक्रमनुपरतप्रवाहं स्यात् / न चैवमन्योऽन्याश्रयः, अप्रकृष्टयोस्तयोमिथ उत्कृष्टयोर्हेतुत्वात् / सामान्यतस्तु क्षयोपशमभेदस्यैव हेतुत्वादिति ज्ञेयम् / / 23 / / ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा / अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते / / 24 / / वृ० - ऋद्धीति / ऋद्धीनामामर्षोषध्यादीनामनुपजीवनेनाप्रवर्तनमव्यापारणं / सूक्ष्माणां केवलज्ञानदर्शनयथाख्यातचारित्राद्यावरकाणां कर्मणां क्षयः / तथेति समुच्चये अपेक्षैव बन्धनहेतुत्वात्तन्तुस्तद्व्यवच्छेदः फलमस्याः समतायाः प्रचक्षते विचक्षणाः / / 24 / / . - द्वा. द्वा., 18 - योगभेदद्वात्रिंशिका सवृत्तिः।। 7]- तुला - A - अविद्या = सू० - अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या / / 2-5 / / भा० - अनित्यकार्ये नित्यख्याति, तद्यथा - ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकसः इति / तथाऽशुचौ परमबीभत्से काये - “स्थानाद्वीजादुपष्टम्भान्निस्यन्दान्निधनादपि / कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः / / 1 / / " इत्यशुचौ शुचिख्यातिदृश्यते / नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमावासयन्तीवेति, कस्य केनाभिसम्बन्धः ? भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति / एतेनापुण्ये पुण्यप्रत्ययः, तथैवानर्थे चार्थ प्रत्ययो व्याख्यातः / तथा दुःखे सुखख्यातिं वक्ष्यति, “परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाञ्च दुःखमेव सर्वं विवेकिनः” (2.15) इति, तत्र सुखख्यातिरविद्या / तथाऽनात्मन्यात्मख्यातिः बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनसि अनात्मन्यात्मख्यातिरिति /