________________ 100 NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNWwwwwwwwwwwwwwwwA योगविंशिका गाथा-३ वृत्तिसंक्षयश्च - मनोद्वारा विकल्परूपाणां शरीरद्वारा परिस्पन्दरूपाणामन्यसंयोगात्मकवृत्तीनामपुनर्भावेन निरोधः 5 / . तथैतदन्यत्रोक्तम् - "व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनुनन्दत्यात्मसम्पदं मन्वानः / / तस्य चापदमनुशोचत्यात्मव्यापदं मन्वानः स सर्वोऽप्रतिबुद्धः” इति / एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्येति / तस्याश्चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम् / यथा नामित्रो मित्राभावो न मित्रमात्रं किन्तु तद्विरुद्धः सपत्नः / यथा वाऽगोष्पदं न गोष्पदाभावो न गोष्पदमानं किन्तु देश एव ताभ्यामन्यद्वस्त्वन्तरम् / एवमविद्या न प्रमाणं न प्रमाणाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति / / - पातजलयोगसूत्रभाष्यम् / / वृ० - अत्राविद्यादयो मोहनीयकर्मण औदयिकभावविशेषाः तेषां प्रसुप्तत्वं तज्जनककर्मणोऽबाधाकालांपरिक्षयेण कर्मनिषेकाभावः / तनुत्वमुपशमः क्षयोपशमो वा / विच्छिन्नत्वं प्रतिपक्षप्रकृत्युदयादिनाऽन्तरितत्वम् / उदारत्वं चोदयावलिकाप्राप्तत्वम्, इत्यवसेयम् / / -- पू. उपा० श्रीयशोविजयगणिप्रणीता पातज्जलयोगसूत्रवृत्तिः / / B - विकल्पकल्पनाशिल्पं प्रायोऽविद्याविनिर्मितम् / तद्योजनामयश्चात्र कुतर्कः किमनेन तत् / / 6 / / वृ० - विकल्पेति / विकल्पाः शब्दविकल्पा अर्थविकल्पाश्च तेषां कल्पनारूपं शिल्पं / प्रायो बाहुल्येन अविद्याविनिर्मितं ज्ञानावरणीयादिकर्मसम्पर्कजनितं / तद्योजनामयस्तदेकधारात्मा चात्र कुतर्कः / तत् किमनेन मुमुक्षूणां दुष्टकारणप्रभवस्य सत्कार्याहेतुत्वात् / / 6 / / - द्वा. द्वा., 23 - कुतर्कग्रहनिर्वृत्तिद्वात्रिंशिका सवृत्तिः।। 8- तुला - A- अन्यसंयोगवृत्तीनां, यो निरोधस्तथा तथा / अपुनर्भावरूपेण, स तु तत्सङ्क्षयो मतः / / 366 / / वृ० - इह स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनो विकल्परूपाः परिस्पन्दरूपाश्च वृत्तयः सर्वा अन्यसंयोगनिमित्ता एव / तत्र विकल्परूपास्तथाविधमनोद्रव्यसंयोगात् परिस्पन्दरूपाश्च शरीरादिति / ततोऽन्यसंयोगेन या वृत्तयस्तासां यो निरोधः / तथा तथा केवलज्ञानलाभकालेऽयोगिकेवलिकाले च अपुनर्भावरूपेण पुनर्भवनपरिहाररूपेण / स तु स पुनः तत्सङ्क्षयो वृत्तिसङ्क्षयो मत इति / / 366 / / अर्थतत्फलम् - अतोऽपि केवलज्ञानं, शैलेशीसम्परिग्रहः / मोक्षप्राप्तिरनाबाधा, सदानन्दविधायिनी / / 367 / / वृ० - अतोऽप्यत एव वृत्तिसङ्क्षयात् / केवलं सकलद्रव्यपर्यायगोचरत्वात्परिपूर्णज्ञानमुपयोगविशेषः / ततः शैलेशीसम्परिग्रहः शीलं सर्वसंवररूपं तस्येशोऽधिपति शैलेशः, तस्येयमवस्था शैलेशी, तस्याः सम्परिग्रहः स्वीकारः / ततोऽपि मोक्षप्राप्तिनिर्वाणलाभः अनाबाधा सर्वशरीरमानसव्यथाविकला सदा सर्वकालम् आनन्दविधायिनी परमानन्दरूपत्वात्तस्याः यदत्रास्या विशेषणद्वयोपादानं तत्परपरिकल्पितमोक्षप्राप्तिव्यवच्छेदार्थम् / तथाहि - काणादाः ‘सुखदुःखव्यवच्छेदरूपा मुक्तिः' इति प्रतिपन्नाः, ततोऽनाबाधत्वेऽपि नानन्दरूपता स्यादित्युभयग्रहणं कृतम् / / 367 / / __- योगबिन्दुः सवृत्तिकः / / ___B - विकल्पस्यन्दरूपाणां वृत्तीनामन्यजन्मनाम् / अपुनर्भावतो रोधः प्रोच्यते वृत्तिसङ्क्षयः / / 25 / / वृ० - विकल्पेति / स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनोऽन्यजन्मनां पवनस्थानीयस्वेतरतथाविधमनःशरीरद्रव्यसंयोगजनितानां विकल्पस्यन्दरूपाणां वृत्तीनां अपुनर्भावतः पुनरुत्पत्तियोग्यतापरिहारात्