________________ योगविंशिका गाथा-३ 101 INNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN अर्थतेषामध्यात्मादीनां स्थानादिषु कुत्र कस्यान्तर्भावः ? इति चेद्, उच्यते - अध्यात्मस्य चित्रभेदस्य देवसेवाजपतत्त्वचिन्तनादिरूपस्य यथाक्रमं स्थाने ऊर्णेऽर्थे च / भावनाया अपि भाव्यसमानविषयत्वात्तत्रैव / ध्यानस्यालम्बने / समतावृत्तिसङ्क्षययोश्च तदन्ययोग इति भावनीयम् / ततो देशतः सर्वतश्च चारित्रिण एव स्थानादियोगप्रवृत्तिः सम्भवतीति सिद्धम् / ननु यदि देशतः सर्वतश्च चारित्रिण एव स्थानादियोगः तदा देशविरत्यादिगुणस्थानहीनस्य व्यवहारेण श्राद्धधर्मादौ प्रवर्तमानस्य स्थानादिक्रियायाः सर्वथा नैष्फल्यं स्यादित्याशङ्क्याह - इतरस्य देशसर्वचारित्रिव्यतिरिक्तस्य, स्थानादिकं, इत एव देशसर्वचारित्रं विना योगसम्भवाभावादेव, बीजमात्रं योगबीजमात्रं, केचिद् व्यवहारनयप्रधाना इच्छन्ति / “मोक्षकारणीभूतचारित्रतत्त्वसंवेदनान्तर्भूतत्वेन स्थानादिकं चारित्रिण एव योगः, अपुनर्बन्धकसम्यग्दृशोस्तु तद्योगबीजम्” इति निश्चयनयाभिमतः पन्थाः / व्यवहारनयस्तु योगबीजमप्युपचारेण योगमेवेच्छतीति व्यवहारनयेनापुनर्बन्धकादयः स्थानादियोगस्वामिनः, निश्चयनयेन तु चारित्रिण एवेति विवेकः / तदिदमुक्तम् - 9"अपुनर्बन्धकस्यायं, व्यवहारेण तात्त्विकः / - अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु / / " [योगबिन्दु-३६९] इति / अपुनर्बन्धकस्य’ उपलक्षणात्सम्यग्दृष्टेश्च, व्यवहारेण कारणे कार्यत्वोपचारेण, तात्त्विकः, रोधः परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले च वृत्तिसङ्क्षयः प्रोच्यते / तदाह - “अन्यसंयोगवृत्तानां यो निरोधस्तथा तथा / अपुनर्भावरूपेण स तु तत्सङ्क्षयो मतः / / 366 / / " (योगबिन्दुः) / / 25 / / केवलज्ञानलाभश्च शैलेशीसम्परिग्रहः / मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् / / 26 / / वृ० - केवलेति-स्पष्ट: / / 26 / / वृत्तिरोधोऽपि योगश्चेद्भिद्यते पञ्चधाऽप्ययम् / मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः / / 27 / / वृ० - वृत्तिरोधोऽपीति / मोक्षहेतुलक्षणो योगः पञ्चधा भिन्न इति प्रदर्शितं / वृत्तिरोधोऽपि चेद्योग उच्यते / अयमपि पञ्चधा भिद्यते / मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः / अनुभवसिद्धानां भेदानां दुरपह्नवत्वात् अन्यथा द्रव्यमात्रपरिशेषप्रसङ्गादिति भावः / / 27 / / प्रवृत्तिस्थिरताभ्यां हि मनोगुप्तिद्वये किल / भेदाश्चत्वार इष्यन्ते तत्रान्त्यायां तथान्तिमः / / 28 / / वृ० - प्रवृत्तीत्ति / प्रवृत्तिः प्रथमाभ्यासः, स्थिरता उत्कर्षकाष्ठाप्राप्तिस्ताभ्यां मनोगुप्तिद्वये किल आद्याश्चत्वारो भेदा अध्यात्मभावनाध्यानसमतालक्षणा इष्यन्ते, व्यापारभेदादेकत्र क्रमेणोभयोः समावेशाद्यथोत्तरं विशुद्धत्वात् / तथाऽन्त्यायां चरमायां तत्र मनोगुप्तौ अन्तिमो वृत्तिसङ्क्षयः इष्यते / इत्थं हि पञ्चापि प्रकारा निरपाया एव / / 28 / / _- द्वा.द्वा., 18 - योगभेदद्वात्रिंशिका सवृत्तिः / / 19 - A - वृ० - अपुनर्बन्धकस्योपलक्षणत्वात्सम्यग्दृष्टेश्च अयं योगः व्यवहारेण-कारणस्यापि कार्यत्वोपचाररूपेण तात्त्विकः, कारणस्यापि कथञ्चित्कार्यत्वादिति किंरूपः सन्नित्याह अध्यात्मभावनारूपः - अध्यात्मरूपो भावनारूपश्च / निश्चयेन निश्चयनयमतेनोपचारपरिहाररूपेण उत्तरस्य तु अपुनर्बन्धकसम्यग्दृष्ट्यपेक्षया चारित्रिण इति / / 369 / / - योगबिन्दुवृत्तिः / /