________________ 102 योगविंशिका गाथा-३ कारणस्यापि कथञ्चित्कार्यत्वात् / निश्चयेन उपचारपरिहारेण, उत्तरस्य तु चारित्रिण एव / सकृद्वन्धकादीनां तु स्थानादिकमशुद्धपरिणामत्वान्निश्चयतो व्यवहारतश्च न योगः किन्तु 1"योगाभास इत्यवधेयम्, उक्तं च - I“सकृदावर्त्तनादीना-मतात्त्विक उदाहृतः / प्रत्यपायफलप्राय-स्तथा वेषादिमात्रतः / / " [योगबिन्दु-३७०] ___B - तात्त्विकोऽतात्त्विकश्चेति सामान्येन द्विधाप्ययम् / तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः / / 13 / / वृ० - तात्त्विक इति / सामान्येन विशेषभेदानुपग्रहेण तात्त्विकोऽतात्त्विकश्चेति द्विधाप्ययं योग इष्यते / तात्त्विको वास्तवः केनापि नयेन मोक्षयोजनफल इत्यर्थः / अन्योऽतात्त्विकस्तु तदाभास उक्तलक्षणविरहितोऽपि योगोचितवेषादिना योगवदाभासमानः प्रकीर्तितः / / 13 / / - द्वा. द्वा., 19 - योगविवेकद्वात्रिंशिका सवृत्तिः / / [10] - पूर्वमुद्रितपुस्तके 'योगाभ्यास' इति पाठोऽस्ति, परन्तु योगबिन्द्वादिप्रकरणानुसारेण 'योगाभास' इतिपाठः सम्यग्भाति / _ - सम्पा० / 11 - A - वृ० - सकृदेकवारमावर्तन्त उत्कृष्टां स्थितिं वध्नन्ति ये ते सकृदावर्तनाः, आदिशब्दाद् द्विरावर्तनादिग्रहः, तेषाम् अतात्त्विको व्यवहारतो निश्चयतश्चाऽतत्त्वरूपः उदाहृतोऽध्यात्मभावनारूपो योगः अद्याप्यशद्धपरिणामत्वात्तेषामिति / कीदशोऽसावित्याह प्रत्यपायफलप्रायः - प्रत्यपायोऽनर्थः फलं प्रायो बाहुल्येन यस्येति समासः / कुत इत्याह तथा वेषादिमात्रतः तत्प्रकारं भावसाराध्यात्मभावनायुक्तयोगियोग्यं यद् वेषादिमानं नेपथ्यचेष्टा-भाषालक्षणं श्रद्धानशून्यं वस्तु, तस्मात् / तत्र हि वेषादिमात्रमेव स्यान्न पुनस्तेषां काचिच्छ्रद्धालुतेति / / 370 / / - योगबिन्दुवृत्तिः / / चारित्रिणस्तु विज्ञेयः, शुद्ध्यपेक्षो यथोत्तरम् / ध्यानादिरूपो नियमात्, तथा तात्त्विक एव तु / / 371 / / वृ० - चारित्रिणः पुनः विज्ञेयः शुद्ध्यपेक्षो यथोत्तरमुत्तरोत्तरां शुद्धिमपेक्ष्य किमित्याह ध्यानादिरूपः ध्यानसमतावृत्तिसङ्क्षयलक्षणो योगः नियमात् - अवश्यंतया, न त्वन्यस्य 'तथा' इति समुच्चये / तात्त्विक एव तु तत्त्वरूप एवेति / / 371 / / . - योगबिन्दुः सवृत्तिकः / / B - अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः / अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु / / 14 / / वृ० - अपुनर्बन्धकस्येति / अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च / अयं योगो व्यवहारेण कारणस्यापि कार्योपचाररूपेण तात्त्विकोऽध्यात्मरूपो भावनारूपश्च / निश्चयेन निश्चयनयेनोपचारपरिहाररूपेणोत्तरस्य तु चारित्रिण एव / / 14 / / सकृदावर्तनादीना-मतात्विक उदाहतः / प्रत्यपायफलप्राय-स्तथावेषादिमात्रतः / / 15 / / वृ० - सकृदिति / सकृदेकवारमावर्तन्त उत्कृष्टस्थिति बनन्तीति सकृदावर्तनाः आदिशब्दाद् द्विरावर्तनादिग्रह: तेषामतात्त्विको व्यवहारतः / निश्चयतश्चातत्त्वरूपोऽशुद्धपरिणामत्वादुदाहृतः अध्यात्मभावनारूपो योगः / प्रत्यपायोऽनर्थः फलं प्रायो बाहुल्येन यस्य स तथा / तथा तत्प्रकारभावसाराध्यात्मभावनायुक्तयोगियोग्यं यद्वेषादिमानं नेपथ्यचेष्टाभाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् / तत्र हि वेषादिमात्रमेव स्यात् न पुनस्तेषां काचिच्छ्रद्धालुतति / / 15 / / - द्वा. द्वा., 19 - योगविवेकद्वात्रिंशिका सवृत्तिः / /