________________ . योगविशिका गाथा-३-४-६ 993 सकृद्-एकवारमावर्तन्ते उत्कृष्टां स्थितिं बध्नन्ति ये ते सकृदावर्तनाः, आदिशब्दाद्विरावर्तनादिग्रहः, अतात्त्विकः व्यवहारतो निश्चयतश्चातत्त्वरूपः / / 3 / / तदेवं स्थानादियोगस्वामित्वं विवेचितम्, अर्थतेष्वेव प्रतिभेदानाह - 'इक्विक्को य चउद्धा, इत्थं पुण तत्तओ मुणेयव्यो / इच्छा-पवित्ति-थिर-सिद्धिभेयओ समयनीईए / / 4 / / (छाया : एकैकश्च चतुर्दा अत्र' पुनः तत्त्वतः ज्ञातव्यः / इच्छा-प्रवृत्ति-स्थिर-सिद्धिभेदतः समयनीत्या६ / / ) इक्विक्को य त्ति / अत्र स्थानादौ, पुनः कर्मज्ञानविभेदाभिधानापेक्षया भूयः, एकैकश्चतुर्दा तत्त्वतः सामान्येन दृष्टावपि परमार्थतः, समयनीत्या योगशास्त्रप्रतिपादितपरिपाट्या, इच्छा-प्रवृत्ति-स्थिरसिद्धिभेदतः इच्छा-प्रवृत्ति-स्थिर-सिद्धिभेदानाश्रित्य, मुणेयव्यो त्ति ज्ञातव्यः / / 4 / / तानेव भेदान् विवरीषुराह - 'तज्जुत्तकहापीईइ, संगया विपरिणामिणी इच्छा / सव्वत्थुवसमसारं, तप्पालणमो पवत्ती उ / / 5 / / [1] - तुला - A - इहाऽहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् / ___ अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः / / 214 / / . वृ० - इह लोके, अहिंसादयो धर्माः पञ्च संख्यया सुप्रसिद्धाः सर्वतन्त्रसाधारणत्चेन, यमा-उपरमाः, सतांमुनीनाम्, इति, किम्पर्यन्ता ? इत्याह अपरिग्रहपर्यन्ताः / “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः” (पातञ्जल 2-30) इति वचनात् / तथेच्छादिचतुर्विधाः प्रत्येकमिच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति / / 214 / / __- योगदृष्टिसमुश्ययः सवृत्तिः / / B - यमाश्चतुर्विधा इच्छाप्रवृत्तिस्थैर्यसिद्धयः / योगक्रियाफलाख्यं च स्मर्यतेऽवञ्चकत्रयम् / / 25 / / / वृ० - यमा इति / यमाश्चतुर्विधा इच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमाश्च / अवञ्चकत्रयं च योगक्रियाफलाख्यं श्रूयते योगावञ्चकः क्रियावञ्चकः फलावञ्चकश्चेति / / 25 / / - द्वा. द्वा., 19 - योगविवेकद्वात्रिंशिका सवृत्तिः / / [1] - तुला - A - तद्वत्कथाप्रीतियुता तथाऽविपरिणामिनी / यमेष्विच्छाऽवसेयेह प्रथमो यम एव तु / / 215 / / वृ० - तद्वत्कथाप्रीतियुता यमवत्कथाप्रीतियुता तथाऽविपरिणामिनी - तद्भावस्थिरत्वेन यमेषूक्तलक्षणेषु इच्छा अवसेयेह यमचक्रे इयं च प्रथमो यम एव तु अनन्तरोदि लक्षणेच्छेवैच्छायम इति कृत्वा / / 215 / / तथा -