________________ 104 योगविंशिका गाथा-५-६ wroommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmrrrrrrrrrrrwwwwwwmmmmmm तह चेव एयबाहग-चिंतारहियं थिरत्तणं नेयं / सव्वं परत्थसाहग-रूवं पुण होइ सिद्धि त्ति / / 6 / / (छाया : तयुक्तकथाप्रीत्या' सङ्गता विपरिणामिनी इच्छा / सर्वत्र उपशमसारं तत्पालनं प्रवृत्तिः तु / / ) तथैव' एतद्बाधकचिंतारहितं स्थिरत्वं झेयम् / सर्वं परार्थसाधकरूपं पुनः भवति सिद्धिः इति / / ) सर्वत्र शमसारं तु यमपालनमेव यत् / प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् / / 216 / / वृ० - सर्वत्र सामान्येन शमसारं - तूपशमसारमेव यत्क्रियाविशिष्टं यमपालनं, प्रवृत्तिरिह विज्ञेया यमेषु, द्वितीयो यम एव तत् - प्रवृत्तियम इत्यर्थः / / 216 / / -- योगदृष्टिसमुनयः सवृत्तिः / / B - इच्छायमो यमेष्विच्छा युता तद्वत्कथामुदा / स प्रवृत्तियमो यत्तत्पालनं शमसंयुतम् / / 26 / / वृ० - इच्छेति / तद्वतां यमवतां कथातो या मुद् प्रीतिस्तया युता सहिता यमेष्विच्छा इच्छायम उच्यते / यत्तेषां यमानां पालनं शमसंयुतमुपशमान्वितं स प्रवृत्तियमः / तत्पालनं चात्राविकलमभिप्रेतं, तेन न कालादिविकलतत्पालनक्षणे इच्छायमेऽतिव्याप्तिः / न च सोऽपि प्रवृत्तियम एव, केवलं तथाविधासाधुचेष्टया प्रधान इच्छायम एव तात्त्विकपक्षपातस्यापि द्रव्यक्रियातिशायित्वात् / तदुक्तं - “तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया / अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव / / 1 / / " संविग्नपाक्षिकस्य प्रवृत्तचक्रत्वानुरोधे तु प्रवृत्तियम एवायं, तस्य शास्त्रयोगनियतत्वादिति नयभेदेन भावनीयम् / / 26 / / ' - द्वा. द्वा., 19 - योगविवेकद्वात्रिंशिका सवृत्तिः / / [2] - तुला - A - विपक्षचिन्तारहितं यमपालनमेव यत् / तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि / / 217 / / वृ० - विपक्षचिन्तारहितमतिचारादिचिन्तारहितमित्यर्थः यमपालनमेव यद्विशिष्टक्षयोपशमवृत्त्या तत्स्थैर्यमिह विज्ञेयं यमेषु, एतञ्च तृतीयो यम एव हि स्थिरयम इति योऽर्थः / / 217 / / परार्थसाधकं त्वेतत्सिद्धिः शुद्धान्तरात्मनः / अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु / / 218 / / वृ० - परार्थसाधकं त्वेतद्यमपालनं सिद्धिरभिधीयते / एतच्च शुद्धान्तरात्मनो नान्यस्य, अचिन्त्यशक्तियोगेन तत्सन्निधौ वैरत्यागात् / एतञ्चतुर्थो यम एव तु सिद्धियम इति भावः / / 218 / / - योगदृष्टिसमुञ्चयः सवृत्तिः / / B - सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया / रहिता यमसेवा तु तृतीयो यम उच्यते / / 27 / / वृ० - सदिति / सतो विशिष्टस्य क्षयोपशमस्योत्कर्षादुद्रेकादतिचारादीनां चिन्तया रहिता तदभावस्यैव विनिश्चयात् / यमसेवा तु तृतीयो यमः स्थिरयम उच्यते / / 27 / / परार्थसाधिका त्वेषा सिद्धिः शुद्धान्तरात्मनः / अचिन्त्यशक्तियोगेन चतुर्थो यम उच्यते / / 28 / / वृ० - परार्थेति / परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिकारिणी तु एषा यमसेवा सिद्धिः / शुद्धः क्षीणमलतया निर्मलोऽन्तरात्मा यस्य / अचिन्त्याया अनिर्वचनीयायाः शक्तेः स्ववीर्योल्लासरूपाया योगेन चतुर्थो यम उच्यते / / 28 / / - द्वा.द्वा., 19 - योगविवेकद्वात्रिंशिका सवृत्तिः / /