________________ योगविंशिका गाथा-५-६ 105 तज्जुत्तकहा इत्यादि / तद्युक्तानां-स्थानादियोगयुक्तानां, कथायां प्रीत्या' अर्थबुभुत्सयाऽर्थबोधेन वा जनितो यो हर्षस्तल्लक्षणया, सङ्गता-सहिता, विपरिणामिनी विधिकर्तृबहुमानादिगर्भं स्वोल्लासमात्राद्यत्किञ्चिदभ्यासादिरूपं विचित्रं परिणाममादधाना इच्छा भवति, द्रव्यक्षेत्राद्यसामग्रयेणाङ्गसाकल्याभावेऽपि यथाविहितस्थानादियोगेच्छया यथाशक्ति क्रियमाणं स्थानादि इच्छारूपमित्यर्थः / प्रवृत्तिस्तु सर्वत्र सर्वावस्थायां, उपशमसारं उपशमप्रधानं यथा स्यात्तथा, तत्पालनं यथाविहितस्थानादियोगपालनम्, ओ त्ति प्राकृतत्वात् / वीर्यातिशयाद्यथाशास्त्रमङ्गसाकल्येन विधीयमानं स्थानादि प्रवृत्तिरूपमित्यर्थः / / 5 / / तह चेव त्ति / तथैव प्रवृत्तिवदेव सर्वत्रोपशमसारं स्थानादिपालनम्, एतस्य पाल्यमानस्य स्थानादेबधिकचिन्तारहितं स्थिरत्वं ज्ञेयम् / . प्रवृत्तिस्थिरयोगयोरेतावान् विशेषः यदुत - प्रवृत्तिरूपं स्थानादियोगविधानं सातिचारत्वाद्बाधकचिन्तासहितं भवति / स्थिररूपं त्वभ्याससौष्ठवेन निर्बाधकमेव जायमानं तज्जातीयत्वेन बाधकचिन्ताप्रतिघाताच्छुद्धिविशेषेण तदनुत्थानाञ्च तद्रहितमेव भवतीति / सर्वं स्थानादि स्वस्मिन्नुपशमविशेषादिफलं जनयदेव, परार्थसाधकं स्वसन्निहितानां स्थानादियोगशुद्ध्यभाववतामपि तत्सिद्धिविधानद्वारा परगतस्वसदृशफलसम्पादकं, पुनः सिद्धिर्भवति / अत एव 'सिद्धाऽहिंसानां समीपे हिंसाशीला अपि हिंसां कर्तुं नालम्, सिद्धसत्यानां च समीपेऽसत्यप्रिया [3] - तुला - . भवत्यस्यां तथाऽच्छिन्ना, प्रीतिर्योगकथास्वलम् / शुद्धयोगेषु नियमाद्, बहुमानश्च योगिषु / / 42 / / वृ० - भवत्यस्यां / दृष्टौ तथा / तेन प्रकारेण अच्छिन्ना - भावप्रतिबन्धसारतया प्रीतिर्योगकथास्वलमत्यर्थं तथा शुद्धयोगेष्वकल्कप्रधानेषु 'नियमाद्' - नियमेन बहुमानश्च योगिषु भवति / / 42 / / - योगदृष्टिसमुच्चयः सवृत्तिः / / 4- तुला - वैरत्यागोऽन्तिके तस्य, फलं चाकृतकर्मणः / रत्नोपस्थानसद्वीर्यलाभो जनुरनुस्मृतिः / / 6 / / वृ० - वैरेति / तस्याहिंसाभ्यासवतोऽन्तिके सन्निधौ वैरत्यागः सहजविरोधिनामप्यहिनकुलादीनां हिंस्रत्वपरित्यागः / तदुक्तं - “अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः” (पा.यो. 2-35) / सत्याभ्यासवतश्चाकृतकर्मणोऽवि- हितानुष्ठानस्यापि फलं तदर्थोपनतिलक्षणं / क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति अस्य तु सत्यं तथा प्रकृष्यते, यथाऽकृतायामपि क्रियायां योगी फलमाश्रयते, तद्वचनाञ्च यस्य कस्यचित् क्रियामकुर्व-तोऽपि फलं भवतीति / / तदाह - “सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वं" (पा.यो.२-३६) अस्तेयाभ्यासवतश्च रत्नोप-स्थानं तत्प्रकर्षानिरभिलाषस्यापि सर्वतो दिक्कालानि रत्नान्युपतिष्ठन्त इत्यर्थः / ब्रह्मचर्याभ्यासवतश्च सतो निरतिशयस्य वीर्यस्य लाभः, वीर्यनिरोधो हि ब्रह्मचर्यं, तस्य प्रकर्षाञ्च वीर्यं शरीरेन्द्रियमनःसु प्रकर्षमाग-च्छतीति / अपरिग्रहाभ्यासवतश्च जनुष उपस्थितिः “कोऽहमासं ? कीदृशः ? किंकार्यकारी ?" इति जिज्ञासायां सम्यग्जानातीत्यर्थः / न केवलं भोगसाधनपरिग्रह एव परिग्रहः किन्त्वात्मनः शरीरपरिग्रहोऽपि