________________ 106 योगविंशिका गाथा-६ roommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm अप्यसत्यमभिधातुं नालम् / एवं सर्वत्रापि ज्ञेयम् / इतिः इच्छादिभेदपरिसमाप्तिसूचकः / अत्रायं मत्कृतः सङ्ग्रहश्लोकः - “इच्छा तद्वत्कथाप्रीतिः, पालनं शमसंयुतम् / पालनं (प्रवृत्तिः) दोषभीहानिः, स्थैर्य सिद्धिः परार्थता / / 1 / / " इति / [शब्दभेदेन ज्ञानसारे 27-4] / / 6 / तथाभोगसा-धनत्वाच्छरीरस्य, तस्मिन् सति रागानुबन्धाद्बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः / यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमवलम्बते तदा मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोध इति तदाह - अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः' इति (पा.यो.२-३९) / / 6 / / - द्वा. द्वा., 21 - मित्राद्वात्रिंशिकाः / / तुला - अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः / / 35 / / वृ० - शाश्वतिकविरोधा अपि अश्वमहिषमूषकमार्जाराहिनकुलादयोऽपि भगवतः प्रतिष्ठिताऽहिंसस्य सन्निधानात्तञ्चित्ताऽनुकारिणो वैरं परित्यजन्तीति / / 35 / / सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् / / 36 / / वृ० - क्रियासाध्यौ धर्माऽधर्मों क्रिया, तत्फलं च स्वर्गनरकादि, ते एवाऽऽश्रयतीत्याश्रयस्तस्य भावस्तत्त्वम् / तदस्य भगवतो वाचो भवतीति / क्रियाऽऽश्रयत्वमाह - “धार्मिक” इति / फलाश्रयत्वमाह "स्वर्गम्” इति / अमोघा अप्रतिहता / / 36 / / अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् / वृ० सुबोधम् / / 37 / / ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः / / 38 / / वृ० - वीर्य्य / सामर्थ्य, यस्य लाभाद् अप्रतिघान् अप्रतिघातान् गुणान् अणिमादीन्, उत्कर्षयति उपचिनोति / सिद्धश्च तारादिभिरष्टाभिः सिद्धिभिरूहाद्यपरनामभिरूपेतो, विनेयेषु शिष्येषु, ज्ञानं योगतदङ्गविषयमाधातुं समर्थो भवतीति / / 38 / / अपरिग्रहस्थैर्यैर्ये जन्मकथन्तासम्बोधः / / 39 / / वृ० - निकायविशिष्टैर्देहेन्द्रियादिभिरभिसम्बन्धो जन्म, तस्य कथन्ता किम्प्रकारता, तस्याः सम्बोधः साक्षात्कारः, सप्रकारातीन्द्रियशान्तोदिताव्यपदेश्यजन्मपरिज्ञानमितियावत् / अतीतं जिज्ञासते “कोऽहमासम्” इति / तस्यैव प्रकारभेदमुत्पत्तौ स्थितौ च जिज्ञासते “कथमहमासम्” इति / वर्तमानस्य जन्मनः स्वरूपं जिज्ञासते “किंस्विद्” इति / शरीरं भौतिकं किं भूतानां समूहमात्रम्, आहोस्वित्तेभ्योऽन्यदिति / अत्राऽपि कथंस्विदित्यनुषजनीयम् / क्वञ्चित्तु पठ्यत एव / अनागतं जिज्ञासते - “के वा भविष्याम” इति / अत्राऽपि कथंस्विदित्यनुषङ्गः / “एवमस्य” इति / पूर्वान्तः अतीतः कालः, परान्तः भविष्यन्, मध्यः वर्तमानः, तेष्वात्मनो भावः शरीरादिसम्बन्धः, तस्मिञ्जिज्ञासा ततश्च ज्ञानम् / यो हि यदिच्छति स तत्करोतीति न्यायात् / / 39 / / -पातज्जलयोगसूत्रवृत्तिः / /