________________ योगविशिका गाथा-७ 107 उक्ता इच्छादयो भेदाः, अथैतेषां हेतूनाह - एए य चित्तरूवा, तहाखओवसमजोगओ हुंति / तस्स उ सद्धापीयाइजोगओ भव्वसत्ताणं / / 7 / / (छाया : एते' च' चित्ररूपाः तथाक्षयोपशमयोगतः भवन्ति / तस्य तु" श्रद्धाप्रीत्यादियोगतः६ भव्यसत्त्वानाम् / / ) एए यत्ति / एते च इच्छादयः, चित्ररूपाः परस्परं विजातीयाः स्वस्थाने चासङ्ख्यभेदभाजः, तस्य तु अधिकृतस्य स्थानादियोगस्यैव, 'श्रद्धा इदमित्थमेवेति प्रतिपत्तिः, प्रीतिः तत्करणादौ हर्षः, आदिना धृति धारणादि परिग्रहस्तद्योगतः, भव्यसत्त्वानां मोक्षगमनयोग्यानामपुनर्बन्धकादिजन्तूनां, 1- तुला - ('सद्धाए'.....जलशोधकमणिदृष्टान्तः -) श्रद्धा अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह ‘सद्धाए मेहाए धीइए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउस्सग्गं'ति / श्रद्धया हेतुभूतया, न बलाभियोगादिना / श्रद्धा निजोऽभिलाषः मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्यश्चेतसः प्रसाद इत्यर्थः / अयञ्च जीवादितत्वार्थानुसारी समारोपविघातकृत कर्मफलसम्बन्धास्तित्वादिसम्प्रत्ययाकारः चित्तकालुष्यापनायी धर्मः / यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः पङ्कादिकालुष्यमपनीयाच्छतामापादयति, एवं श्रद्धामणिरपि चित्तसरस्युत्पन्नः (प्र...पपन्नः) सर्वं चित्तकालुष्यमपनीय भगवदर्हत्प्रणीतमार्गे (प्र....मार्ग) सम्यग्भावयतीति / (पञ्जिका) 'श्रद्धा.' / 'समारोपे'त्यादि, 'समारोपविघातकृत्', समारोपो नामासतः स्वभावान्तरस्य मिथ्यात्वमोहोदयात्तथ्ये. वस्तुन्यध्यारोपणं काचकामलाद्युपघाताद् द्विचन्द्रादिविज्ञानेष्विवेति, तद्विघातकृत् तद्विनाशकारी / 'कर्मफलसम्बन्धास्तित्वादिसम्प्रत्ययाकार' इति, कर्म शुभाशुभलक्षणं, फलं च तत्कार्यं तथाविधमेव, तयोः सम्बन्धः आनन्तर्येण कार्यकारणभावलक्षणो वास्तवः संयोगो, न तु सुगतसुतपरिकल्पितसन्तानव्यवहाराश्रय इवोपचरितो, यथोक्तं तैः - ‘यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना / फलं तत्रैव सन्धत्ते काप्पासे रक्तता यथा / ' तस्य अस्तित्वं सद्भावः, 'आदि' शब्दाद् ‘आत्माऽस्ति, स परिणामी, बद्रः सत्कर्मणा विचित्रेण / मुक्तश्च तद्वियोगाद्, हिंसाहिंसादि तद्धेतुः / / ' इत्यादिचित्रप्रावचिनकवस्तुसंग्रहः / तस्य सम्प्रत्ययः सम्यक्श्रद्धानयुता प्रतीतिः स आकारः स्वभावो यस्य स तथा / [2] - तुला - ('मेहाए' - आतुरौषधदृष्टान्तः-) एवं मेधया, न जडत्वेन / मेधा ग्रन्थग्रहणपटुः परिणामः, ज्ञानावरणीयकर्मक्षयोपशमजः चित्तधर्म इति भावः / अयमपीह सद्ग्रन्थप्रवृत्तिसारः पापश्रुतावज्ञाकारी गुरुविनयादिविधिवल्लभ्यो महांस्तदुपादेयपरिणामः, आतुरौषधाप्त्युपादेयतानिदर्शनेन यथा-प्रेक्षावदातुरस्य तथा तथोत्तमौषधावाप्तौ विशिष्टफलभव्यतयेतरापोहेन तत्र महानुपादेयभावो ग्रहणादरश्च, एवं मेधाविनो मेधासामर्थ्यात् सद्ग्रन्थ एवोपादेयभावो ग्रहणादरश्च, नान्यत्र, अस्यैव भावौषधत्वादिति / 3] - तुला - ('धीइए' : चिन्तामणिप्राप्त्युपमा-) एवं च धृत्या, न रागाद्याकुलतया / धृतिर्मनःप्रणिधानं, विशिष्टा प्रीतिः / इयमप्यत्र मोहनीयकर्मक्षयोपशमादिसम्भृता, रहिता दैन्योत्सुक्याभ्यां, धीरगम्भीरा