________________ 108 योगविंशिका गाथा-७-८ तथाक्षयोपशमयोगतः तत्तत्कार्यजनानुकूलविचित्रक्षयोपशमसम्पत्त्या भवन्ति, इच्छायोगादिविशेषे आशयभेदाभिव्यङ्ग्यः क्षयोपशमभेदो हेतुरिति परमार्थः / अत एव यस्य यावन्मात्रः क्षयोपशमस्तस्य तावन्मात्रेच्छादिसम्पत्त्या मार्गे प्रवर्त्तमानस्य सूक्ष्मबोधाभावेऽपि मार्गानुसारिता न व्याहन्यत इति सम्प्रदायः / / 7 / / इच्छादीनामेव हेतुभेदमभिधाय कार्यभेदमभिधत्ते - अणुकंपा निव्वेओ, संवेगो होइ तह य पसमु त्ति / एएसिं अणुभावा, इच्छाईणं जहासंखं / / 8 / / शयरूपा, अवन्ध्यकल्याणनिबन्धनवस्त्वाप्त्युपमया, यथा - दौर्गत्योपहतस्य चिन्तामण्याद्यवाप्तौ विज्ञाततद्गुणस्य ‘गतमिदानी दौर्गत्यमिति विदित (प्र. ... विगत) तद्विघातभावं भवति धृतिः / एवं जिनधर्मचिन्तारत्नप्राप्तावपि विदिततन्माहात्म्यस्य ‘क इदानीं संसार' इति तदुःखचिन्तारहिता सञ्जायत एवेयम्, उत्तमालम्बनत्वादिति / 4- तुला - ('धारणाए' : मुक्ताफलमालाप्रोतकोपमा-) एवं धारणया, न चित्तशून्यत्वेन / 'धारणा' अधिकृतवस्त्वविस्मृतिः / इयं चेह ज्ञानावरणीयकर्मक्षयोपशमसमुत्था अविच्युत्यादिभेदवती प्रस्तुत (प्र. ... प्रज्ञात) वस्त्वानुपूर्वीगोचरा चित्तपरिणतिः जात्यमुक्ताफलमालाप्रोतकदृष्टान्तेन तस्य तथातथोपयोगदाात् . अविक्षिप्तस्य सतो यथार्ह विधिवदेतत्प्रोतनेन गुणवती निष्पद्यते अधिकृतमाला; एवमेतद्बलात् स्थानादियोगप्रवृत्तस्य यथोक्तनीत्यैव निष्पद्यते योगगुणमालापुष्ट (प्र. ... पुष्टि) निबन्धनत्वादिति / - पञ्जिका - ‘अविच्युत्यादिभेदवती' अविच्युतिस्मृतिवासनाभेदवतीति / [5] - तुला - ('अणुप्पेहाए' : रत्नशोधकानलोपमा-) एवमनुप्रेक्षया, न प्रवृत्तिमात्रतया / अनुप्रेक्षा नाम तत्त्वार्थानुचिन्ता / इयमप्यत्र ज्ञानावरणीयकर्मक्षयोपशमसमुद्भवोऽनुभूतार्थाभ्यासभेदः .(1) परमसंवेगहेतुः (2) तद्दा_विधायी (3) उत्तरोत्तरविशेषसम्प्रत्ययाकारः (4) केवलालोकोन्मुखश्चित्तधर्मः / यथा रत्नशोधकोऽनल: रत्नमभिसम्प्राप्त रत्नमलं दग्ध्वा शुद्धिमापादयति, तथानुप्रेक्षानलोऽप्यात्मरत्नमुपसम्प्राप्तः कर्ममलं दग्ध्वा कैवल्यमापादयति तथातत्स्वभावत्वात् (प्र. .. तथास्वभावात्) इति / एतानि श्रद्धादीनि अपूर्वकरणाख्यमहासमाधिबीजानि, तत्परिपाकातिशयस्तत्सिद्धेः / परिपाचना त्वेषां कुतर्कप्रभवमिथ्याविकल्पव्यपोहतः श्रवणपाठ-प्रतिप्रतीच्छाप्रवृत्त्यादिरूपाः, अतिशयस्त्वस्याः तथास्थैर्यसिद्धिलक्षणः प्रधानसत्त्वार्थहेतुरपूर्वकरणावह इति परिभावनीयं स्वयमित्थम् / एतदुचारणं त्वेवमेवोपधाशुद्धं सदनुष्ठानं भवतीति / __ (पं.) श्रवणपाठप्रतिपत्तीच्छाप्रवृत्त्यादिरूपा इति श्रवणं-धर्मशास्त्राऽऽकर्णनं, पाठः तत्सूत्रगतः, प्रतिपत्तिः सम्यक् तदर्थप्रतीतिः, इच्छा-शास्त्रोक्तानुष्ठानविषया चिन्ता, प्रवृत्तिः तदनुष्ठानम्, आदि-शब्दाद्विनजय-सिद्धि-विनियोगा दृश्याः, तत्र विघ्नजयः-जघन्यमध्यमोत्कृष्टप्रत्यूहाभिभवः, सिद्धिः अनुष्ठेयार्थनिष्पत्तिः, विनियोगः तस्या यथायोग्यं व्यापारणम् / ततस्ते रूपं यस्याः सा तथा / - 1 तः 5 ललितविस्तरा ‘अरिहंत चेइयाणं' वृत्तिः पञ्जिका च / /