________________ योगविंशिका गाथा-८ 109 (छाया : अनुकम्पा निर्वेदः संवेगः भवन्ति तथा च प्रशमः' इति / एतेषां" अनुभावाः इच्छादीनां यथासङ्खयम् / / अणुकंप त्ति / अनुकम्पा द्रव्यतो भावतश्च यथाशक्ति दुःखितदुःखपरिहारेच्छा, निर्वेदः नैर्गुण्यपरिज्ञानेन भवचारकाद्विरक्तता, संवेगः मोक्षाभिलाषः, तथा प्रशमश्च क्रोधकण्डूविषयतृष्णोपशमः, इत्येते एतेषां इच्छादीनां योगानां यथासङ्ख्यं, अनु-पश्चाद् भावाः अनुभावाः कार्याणि भवन्ति / ___ यद्यपि सम्यक्त्वस्यैवैते कार्यभूतानि लिङ्गानि प्रवचने प्रसिद्धानि, तथापि योगानुभवसिद्धानां विशिष्टानामेतेषामिहेच्छायोगादिकार्यत्वमभिधीयमानं न विरुध्यत इति द्रष्टव्यम् / / वस्तुतः केवलसम्यकत्वलाभेऽपि व्यवहारेणेच्छादियोगप्रवृत्तेरेवानुकम्पादिभावसिद्धेः / अनुकम्पादिसामान्ये इच्छायोगादिसामान्यस्य तद्विशेषे च तद्विशेषस्य हेतुत्वमित्येव न्यायसिद्धम् / अत एव शमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यलक्षणानां सम्यक्त्वगुणानां पश्चानुपूव्यैव लाभक्रमः / प्राधान्याञ्चेत्थमुपन्यास इति सद्धर्मविंशिकायां प्रतिपादितम् / / 8 / / |1|- A - एवंविधः समाधिः पूर्वभूमिकायां न भवत्येवेति चेत् ? न, सर्वथाऽभावस्य वक्तुमशक्यत्वात् / सम्यग्दर्शनसिद्धियोगकाल एव प्रशमलक्षणलिङ्गसिद्धेरनुकम्पादीनामिच्छाद्यनुभावत्वात्, तदुक्तं विंशिकायां - “अणुकंपा णिव्वेओ संवेगो तह य होइ पसमुत्ति / एएसिं अणुभावा ईच्छाईणं जहासंखं” त्ति / / अनुभावाः - कार्याणि / ईच्छादीनां - इच्छाप्रवृत्तिस्थिरसिद्धियोगानाम् / समाधिजनितश्च भावो ह्युत्थानकालेऽपि संस्कारशेषतया मैत्र्याधुपबृंहितोऽनुवर्तत एवान्यथा क्रियासाफल्यासिद्धेः, “भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छेति” वचनात् / - प्रतिमाशतक गा. 60 वृत्तौ / / . B - अनुकम्पा च निर्वेदः, संवेगः प्रशमस्तथा / एतेषामनुभावाः स्यु-रिच्छादीनां यथाक्रमम् / / 34 / / .. - अध्यात्मसार, ११-सदनुष्ठानाधिकारः / / [2]-A- पयईय व कम्माणं वियाणिउं वा विवागमसुहति / अवरद्धेवि न कुप्पइ उवसमओ सव्वकालंपि / / 10 / / नरविबुहेसरसुक्खं दुक्खं चिय भावओ उ मन्नतो / संवेगओ न मुक्खं मुत्तूणं किंपि पत्थेई / / 11 / / नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं / अकयपरलोयमग्गो ममत्तविसवेगरहिओवि / / 12 / / दगुण पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं / अविसेसओऽणुकंपं दुहावि सामत्थओ कुणइ / / 13 / / मन्नइ तमेव सा नीसंकं जं जिणेहिं पण्णत्तं / सुहपरिणामो सञ्चं कंखाइविसुत्तियारहिओ / / 14 / / एवं विहो य एसो तहा खओवसमभावओ होइ / नियमेण खीणवाही नरुव्व तव्वेयणारहिओ / / 15 / / पढमाणुदयाभावो एयस्स जओ भवे कसायाणं / ता कहमेसो एवं ? भन्नइ तव्विसयविक्खाए / / 16 / / निच्छयसम्मत्तं वाऽहिकिञ्च सुत्तभणिय निउणरूवं तु / एवंविहो निओगो होइ इमो हंत वञ्चुत्ति / / 17 / / पच्छाणुपुब्विओ पुण गुणाणमेएसि होइ लाहकमो / पाहन्नओ उ एवं विन्नेओ सिं उवन्नासो / / 18 / / - विंशतिविशिका, ६-सद्धर्मविंशिका / /