________________ 110 योगविंशिका गाथा vNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN तदेवं हेतुभेदेनानुभावभेदेन चेच्छादिभेदविवेचनं कृतम्, तथा च स्थानादावेकैकस्मिन्निच्छादिभेदचतुष्टयसमावेशादेतद्विषया 'अशीतिर्भेदाः सम्पन्नाः / B - तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् / / 1-2 / / वृ० - एतत्पुनः / सम्यग्दर्शनं कथमुत्पन्नं सत्परेण ज्ञायतेत्याकाङ्क्षायां लिङ्गान्युपदर्शयति प्रशमेत्यादि / प्रशमः सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशाद्दोषाणामुपशमः, इन्द्रियार्थपरिभोगनिवृत्तिा, संवेगः संसारभीतिः निर्वेदो विषयानभिष्वङ्गः / परे तु व्यत्ययमाहुः / अनुकम्पा निरुपधिपरदुःखप्रहाणेच्छा, अस्त्यात्मादिपदार्थकदम्बकमित्येषा मतिर्यस्य स आस्तिकस्तद्भाव आस्तिक्यं तदेव सत्यं निःशङ्क यज्जिनेन्द्रैः प्रवेदितम्', इत्येवं स्वरसिकः परिणामः. एतेषां याऽभिव्यक्ति स्पष्टता सा लक्षणं लिङ्गं यस्य तत्तथा, स्पष्टान्येतानि समस्तानि व्यस्तानि वा प्रतीयमानान्येकत्र धर्मिणि सम्यग्दर्शनमनुमापयन्तीत्यर्थः / स्पष्टता चात्र व्यभिचारवारकविशेषणसाहित्यरूपा ग्राह्या / तथा च जैनप्रवचनानुसारिप्रशमादीनामेव लिङ्गत्वेनाश्रयणादविदितपरमार्थानां मिथ्याशास्त्रवासनोपनीतमोहगर्भवैराग्यवतां मिथ्यादृष्टीनां प्रशमादिभिर्न व्यभिचार इति टीकाकृतः / तथापि निसर्गसम्यग्दृष्टौ श्रेणिकादौ चैतल्लक्षणागतेरनन्तानुबन्ध्यादिक्षयोपशमादिजनिता एव प्रशमादयो लिङ्गत्वेन ग्राह्या इत्याचार्याः, तदुक्तं विंशिकायाम् - “पढमाणुदयाभावो, एयस्स जओ भवे कसायाणं / ता कह एसो एवं / भण्णइ तव्विसयवेक्खाए त्ति / / 1 / / " प्रथमकषायोदयाभावमात्रात्कथमुपशमादिलिङ्गानि सम्यग्दृष्टेः प्रादुःष्यन्तीति पूर्वपक्षः / अनन्तानुबन्ध्यादिविषयापेक्षा एवोपशमादयस्तल्लिङ्गानि, न तु चारित्रपरिपाकजनितेच्छाप्रवृत्ति-स्थिरसिद्धियोगानुभावा अनुकम्पानिर्वेदसंवेगप्रशमा इति नानुपपत्तिरिति सिद्धान्ताशयः / नन्वेवं लैङ्गिकवल्लिङ्गस्यापि दुर्ग्रहत्वादज्ञानाऽसिद्धिः स्यादिति चेत्, न / कुशलप्रवृत्तिभवा (द्, व) बहुमानादिता (तः, ना) तद्ग्रहसम्भवात् / यथा प्रशमादयो निश्चयसम्यक्त्वस्यैव लिङ्गम्, समुदितानां तेषां तदनुभावत्वात्कार्येण कारणानुमानस्य विपक्षबाधकतर्कसहकारेण बलवत्त्वात्, तदाहुः - “णिच्छयसम्मत्तं वाहिगिञ्च सुतभणियनिउणरूवं तु / एवंविहो णिओगो, होइ इमो हंत वन्नुत्ति / / " तथा चास्तिक्यमेव सर्वत्राव्यभिचरितमनौपाधिकस-दुपदेशादिपरिणामेन सुहं (शुभं शुद्ध) लिङ्गमिति युक्तं पश्यामः / - उ. श्रीयशोविजयगणिविरचिता तत्त्वार्थवृत्तिः / / [1]- तुला - xxx एवं स्थानाद्याः पञ्च इच्छादिभिर्गुणिता विंशतिर्भवन्ति, ते च प्रत्येकमनुष्ठानचतुष्कयोजिता अशीतिप्रकारा भवन्ति, तत्स्वरूपनिरूपणायोपदिशति - “प्रीतिभक्तिवचोऽसङ्गैः स्थानाद्यपि चतुर्विधम् / तस्मादयोगयोगाप्तेर्मोक्षयोगः क्रमाद्भवेत् / / 7 / / व्या० प्रीतिभक्तीति एते स्थानादयः, 'प्रीतिः' 'भक्तिः' 'वचनं', 'असङ्गः इति भेदचतुष्टयेनाशीतिभेदाः भवन्ति / / 7 / / - ज्ञानसार, 27 - योगाष्टक, उ. देवचन्द्रगणिविरचितावृत्तिः / / ટબાર્થ - “પ્રીતિ, ભક્તિ, વચન અને અસંગ અનુષ્ઠાનના ભેદે સ્થાનાદિક વીશ યોગ પણ ચાર પ્રકારે છે. તે સકલ યોગથી અયોગ નામે શૈલેશી યોગની પ્રાપ્તિ થવાથી અનુક્રમે મોક્ષયોગ પ્રાપ્ત થાય છે.” - नार वो 24ार्थनो अन्य भाषार्थ //