________________ NNNNNNNNA योगविंशिका गाथा-१ mmmmmmmmmmmmmmmmm... गुरुपारतन्त्र्येण मिथ्यात्वादिप्रतिपक्षभावनया" मनोविभ्रमापनयनादनवच्छिन्नप्रयाणसम्पादक इत्ययं मोहविघ्नजयसम उत्तमस्तृतीयो विघ्नजयः-३ / / भोजनस्य वर्द्रते अत्युष्णकाले च पानीयस्य, अत्युष्णकाले च द्वौ भागौ भोजनस्य हीयेत अतिशीतकाले च पानीयस्य / / 653 / / एतदेव स्पष्टं भावयति - एत्थ उ तइयचउत्था दोण्णि य अणवट्ठिया भवे भागा / पंचमछट्ठो पढमो बिइओऽवि अवट्ठिया भागा / / 654 / / वृ० - आहारविषयौ तृतीयचतुर्थो भागावनवस्थितौ, तौ ह्यतिशीतकाले भवतोऽप्युष्णकाले च न भवतः, तथा यः पानविषयः पञ्चमो भागो यश्च वायुप्रविचारणार्थे षष्ठो भागः यौ च प्रथमद्वितीयावाहारविषयौ एते सर्वेऽपि भागा अवस्थिताः, न कदाचिदपि न भवन्तीति भावः / / 654 / / - पिण्डनियुक्तिः सवृत्तिका / / [11] A - मनोविभ्रमकारणीभूतमिथ्यात्वाविरतिकषायप्रमादयोगप्रतिपक्षभावनास्वरूपमित्थमुपदर्शितं योगशास्त्रे - “येन येन ह्युपायेन, रुध्यते यो य आश्रवः / तस्य तस्य निरोधाय, स स योज्यो मनीषिभिः / / 81 / / क्षमया मृदुभावेन, ऋजुत्वेनाऽप्यनीहया / क्रोधं मानं तथा मायां, लोभं रुन्ध्याद् यथाक्रमम् / / 82 / / असंयमकृतोत्सेकान्, विषयान् विषसन्निभान् / निराकुर्यादखण्डेन, संयमेन महामतिः / / 83 / / तिसृभिर्गुप्तिभिर्योगान्, प्रमादं चाप्रमादतः / सावद्ययोगहानेनाविरतिं चापि साधयेत् / / 84 / / सद्दर्शनेन मिथ्यात्वं, शुभस्थैर्येण चेतसः / विजयेतातरौद्रे च, संवरार्थं कृतोद्यमः / / 85 / / " - योगशास्त्र, प्रकाश-४ / / B - तथा आचाराङ्गसूत्रे त्वित्थमुपदर्शितम् - वितिगिच्छसमावन्नेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अणुगच्छंति असिता वेगे अनुगच्छंति, अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निविजे ? ।।सू. 161 / / .वृ० - विचिकित्सा चित्तविप्लतिः यथा इदमप्यस्तीत्येवमाकारा युक्त्या समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद्भवति, तथाहि - अस्य महतस्तपःक्लेशस्य सिकताकणकवलनिःस्वादस्य स्यात् सफलता न वेति ? कृषीवलादिक्रियाया उभयथाऽप्युपलब्धेरिति, इयं च मतिर्मिथ्यात्वांशानुवेधाद्भवति ज्ञेयगहनत्वाञ्च, तथाहिअर्थस्त्रिविधः- सुखाधिगमो दुरधिगमोऽनधिगमश्च श्रोतारं प्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य, तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साया विषय एव न भवति, देशकालस्वभावविप्रकृष्टस्तु विचिकित्सागोचरीभवति, तस्मिन् धर्माधर्माकाशादौ या विचिकित्सेति, यदिवा 'विइगिच्छत्ति विद्वज्जुगुप्सा, विद्वांसः - साधवो विदितसंसार-स्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा - निन्दा अनानात् प्रस्वेदजलक्लिन्नमलत्वाद्, दुर्गन्धिवपुषस्ता-निन्दति - “को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्नित्यादि” जुगुप्सा तां विचिकित्सां विद्वञ्जुगुप्सां वा सम्यगापन्नः - प्राप्तः आत्मा यस्य स तथा तेन विचिकित्सासमापन्नेनात्मना नोपलभते समाधिं चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा. समाधिस्तं न लभते,