________________ 80 योगविंशिका. गाथा-१ NNNNN NNNNNNNNNNNNN 648) इत्यादिसूत्रोक्तरीत्या तत्कारणानासेवनेन, 'न मत्स्वरूपस्यैते परीषहा लेशतोऽपि बाधकाः किन्तु देहमात्रस्यैव' इति भावनाविशेषेण वा सम्यग्धर्माराधनाय समर्थत्वमिति ज्वरविघ्नजयसमो मध्यमो द्वितीयो विघ्नजयः-२ / यथा च तस्यैवाध्वनि जिगमिषोर्दिग्मोहविघ्नोपस्थितौ भूयो भूयः प्रेर्यमाणस्याप्यध्वनीनैर्न गमनोत्साहः स्यात्तद्विजये तु स्वयमेव सम्यग्ज्ञानात्परैश्चाभिधीयमानमार्गश्रद्धानान्मन्दोत्साहतात्यागेन विशिष्टगमनसम्भवस्तथेहापि मोक्षमार्गे दिग्मोहकल्पो मिथ्यात्वादिजनितो मनोविभ्रमो विघ्नस्तज्जयस्तु साम्प्रतमहितहितस्वरूपमाह - तेल्लदहिसमाओगा अहिओ खीरदहिकंजियाणं च / पत्थं पुण रोगहरं न य हेऊ होइ रोगस्स / / 649 / / वृ० - दधितैलयोस्तथा क्षीरदधिकाञ्जिकानां च यः समायोगः सोऽहितः, विरुद्ध इत्यर्थः, तथा चोक्तम् - “शाकाम्लफलपिण्याककपित्थलवणैः सह / करीरदधिमत्स्यैश्च, प्रायः क्षीरं विरुद्ध्यते / / 1 / / " इत्यादि, अविरुद्धद्रव्यमिलनं पुनः पथ्यं, तञ्च रोगहरं प्रादुर्भूतरोगविनाशकरं, न च भाविनो रोगस्य हेतुः कारणम्, उक्तं च - “अहिताशनसम्पर्कात्, सर्वरोगोद्भवो यतः / तस्मात्तदहितं त्याज्यं, न्याय्यं पथ्यनिषेवणम् / / 1 / / " / / 649 / / साम्प्रतं मितं व्याचिख्यासुराह - अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भागे / वाऊपवियारणट्ठा छन्भायं ऊणयं कुजा / / 650 / / वृ० - इह किल सर्वमुदरं षड्भिर्भागैर्विभज्यते, तत्र चाट्टे भागत्रयरूपमशनस्य सव्यञ्जनस्य तक्रशाकादिसहितस्याधारं कुर्यात्, तथा द्वौ भागौ द्रवस्य पानीयस्य, षष्ठं तु भागं वायुप्रविचारणार्थमूनं कुर्यात् / इह कालापेक्षया तथा तथाऽऽहारस्य प्रमाणं भवति, कालश्च त्रिधा / / 650 / / तथा चाह - सिओ उसिणो साहारणो य कालो तिहा मुणेयव्यो / साहारणमि काले तत्थाहारे इमा मत्ता / / 651 / / वृ० - त्रिधा कालो ज्ञातव्यः, तद्यथा-शीत उष्णः साधारणश्च, तत्र तेषु कालेषु मध्ये साधारणे काले आहारे आहारविषया इयम् अनन्तरोक्ता मात्रा प्रमाणम् / / 651 / / सीए दवस्स एगो, भत्ते चत्तारि अहव दो पाणे / उसिणे दवस्स दोन्नि उ, तिन्नि व सेसा उ भत्तस्स / / 652 / / वृ० - शीते / अतिशयेन शीतकाले द्रवस्य पानीयस्यैको भागः कल्पनीयः, चत्त्वारः भक्ते भक्तस्य, मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य कल्पनीयौ त्रयस्तु भागा भक्तस्य, वाशब्दो मध्यमशीतकालसंसूचनार्थः तथा उष्णे मध्यमोष्णकाले द्वौ भागौ द्रवस्य पानीयस्य कल्पनीयौ, शेषास्तु त्रयो भागा भक्तस्य, अत्युष्णे च काले त्रयो भागा द्रवस्य शेषौ द्वौ भागौ भक्तस्य, वाशब्दोऽत्रात्युष्णकालसंसूचनार्थः, सर्वत्र च षष्ठो भागो वायुप्रविचारणार्थं मुत्कलो मोक्तव्यः / / 652 / / सम्प्रति भागानां स्थिरचरविभागप्रदर्शनार्थमाह - एगो दवस्स भागो, अवट्ठितो भोयणस्स दो भागा / वटुंति व हायंति व, दो दो भागा उ एक्कक्के / / 653 / / वृ० - एको द्रवस्य भागोऽवस्थितो द्वौ भागौ भोजनस्य, शेषौ तौ द्वौ द्वौ भागौ एकैकस्मिन्, भक्ते पाने चेत्यर्थः, वर्द्रते वा हीयेते वा, वृद्धिं वा व्रजतो हानिं वा व्रजत इत्यर्थः, तथाहि-अतिशीतकाले द्वौ भागौ