________________ योगविंशिका गाथा-१ 79 NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN तत्रैव अधिकृतधर्मस्थान एव, शुभः प्रकृष्टः सारो-नैपुण्यान्वितो य उपायस्तेन सङ्गता / विघ्नजयो नाम विघ्नस्य जयोऽस्मादिति व्युत्पत्त्या धर्मान्तरायनिवर्त्तकः परिणामः / स च जेतव्यविघ्नत्रैविध्यात्त्रिविधः, तथा हि - यथा कस्यचित्कण्टकाकीर्णमार्गावतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुर्भवति, तदपनयनं तु पथि प्रस्थितस्य निराकुलगमनसम्पादकं, तथा मोक्षमार्गप्रवृत्तस्य कण्टकस्थानीयशीतोष्णादिपरीषहैरुपद्रुतस्य न निराकुलप्रवृत्तिः तत्तितिक्षाभावनया तदपाकरणे त्वनाकुलप्रवृत्तिसिद्धिरिति कण्टकविघ्नजयसमः प्रथमो हीनो विघ्नजयः-१ / तथा तस्यैव ज्वरेण भृशमभिभूतस्य निराकुलगमनेच्छोरपि तत्कर्तुमशक्नुवतः कण्टकविघ्नादधिको यथा ज्वरविघ्नस्तज्जयश्च विशिष्टगमनप्रवृत्तिहेतुस्तथेहापि ज्वरकल्पाः शारीरा एव रोगा विशिष्टधर्मस्थानाराधनप्रतिबन्धकत्वाद्विघ्नास्तदपाकरणं च 'हियाहारा मियाहारा" (पिंडनियुक्ति-गा. किन्त्वाशयरूपा शुभसारोपायसङ्गताऽत्यन्तं बाह्यक्रियाद्वारेण विशेषणं सर्वं योजनीयं शुभः सुन्दरः सारः प्रकृष्टो नैपुण्यान्वितो य. उपायस्तेन सङ्गता युक्ता / अधिकृते धर्मस्थाने यत्नातिशयः प्रयत्नातिशयस्तस्मात्सा सम्पद्यते / औत्सुक्यविवर्जिता चैव औत्सुक्यं त्वराऽभिलाषातिरेकस्तेन विवर्जिता विरहिता प्रयत्नातिशयमेव विद्यते नत्वौत्सुक्यमिति भावः / / 8 / / * उ० - प्रवृत्तिं लक्षयति - तत्रेत्यादि / तत्रैवाधिकृतधर्मस्थान एवोद्देश्यत्वाख्यविषयतया या प्रवृत्तिः शुभः सुन्दरः सारो नैपुण्यान्वितो यः उपायः प्रेक्षोत्प्रेक्षादिस्तेन सङ्गता साध्यत्वाख्यविषयतया तत्सम्बद्धाऽधिकृते धर्मस्थाने यो यत्नातिशयोऽप्रमादभावनाजनितो विजातीयः प्रयत्नः तस्मादौत्सुक्यमकाले फलवाञ्छा तेन विवर्जिता चैवाकालौत्सुक्यस्य तत्त्वत आर्तध्यानरूपत्वात् / सहेतुस्वरूपानुबन्धशुद्धः प्रवृत्याशयो ज्ञेयः, कथञ्चित्क्रियारूप-त्वेप्यस्य कथञ्चिदाशयरूपत्वात् / / 8 / / - षोडशक - 3, वृत्तिः / / तुला - प्रवृत्तिः प्रकृतस्थाने यत्नातिशयसम्भवा / अन्याभिलाषरहिता चेतःपरिणतिः स्थिरा / / 12 / / -वृ० - प्रवृत्तिरिति / प्रवृत्तिः प्रकृतस्थानेऽधिकृतधर्मविषये यत्नातिशयसम्भवा पूर्वप्रयत्नाधिकोत्तरप्रयत्नजनिता / अन्याभिलाषेणाधिकृतेतरकार्याभिलाषेण रहिता / चेतसोऽन्तरात्मनः परिणतिः स्थिरा एकाग्रा स्वविषय एव यत्नातिशयाज्जाता तत्रैव च तज्जननीत्यर्थः / / 12 / / - द्वा. द्वा., 10 - योगलक्षणद्वात्रिंशिका सवृत्तिः / / . 10] - हियाहारा मियाहारा, अप्पाहारा य जे नरा / न ते विजा तिगिच्छंति, अप्पाणं ते तिगिच्छगा / / 648 / / वृ० - हितं द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतोऽविरुद्धानि द्रव्याणि, भावत एषणीयं, तदाहारयन्ति ये ते हिताहाराः, मितं प्रमाणोपेतमाहारयन्तीति मिताहाराः, द्वात्रिंशत्कवलप्रमाणादप्यल्पमल्पतरं वाऽऽहारयन्तीत्यल्पाहाराः, सर्वत्र वा बहुव्रीहिः, हित आहारो येषां ते हिताहारा इत्यादि, एवंविधा ये नरास्तान् वैद्या न चिकित्सन्ति, हितमितादिभोजनेन तेषां रोगस्यैवासम्भवात्, किन्त्वेवं मूलत एव रोगोत्थानप्रतिषेधकरणेनात्मनैवात्मनस्ते चिकित्सकाः / / 648 / /