________________ 78 योगविंशिका गाथा-१ तत्समये प्रतिपन्नधर्मस्थानमर्यादायां, स्थितिमत् अविचलितस्वभावम्, तदधः स्वप्रतिपन्नधर्मस्थानादधस्तनगुणस्थानवर्त्तिषु जीवेषु कृपानुगं करुणापरम्, न तु गुणहीनत्वात्तेषु द्वेषान्वितम्, शेषं सुगमम् / अधिकृतधर्मस्थानोद्देशेन तदुपायविषय इतिकर्तव्यताशुद्धः शीघ्रक्रियासमाप्तीच्छादिलक्षणौत्सुक्यविरहितः प्रयत्नातिशयः प्रवृत्तिः / आह च - 9"तत्रैव तु प्रवृत्तिः, शुभसारोपायसङ्गतात्यन्तम् / अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव / / " [षो० 3-8] प्रतिष्ठितं अविचलितस्वभावं / तदधःकृपानुगं चैव स्वप्रतिपन्नधर्मस्थानस्याधोऽधस्ताद्ये वर्तन्ते जीवा न तावती धर्मपदवीमाराधयन्ति तेषु कृपया करुणया अनुगमनुगतं तेषु करुणापरं, न तु गुणहीनत्वात्तेषु द्वेषसमन्वितं / निरवद्यवस्तुविषयं निरवद्यं सावधपरिहारेण यद्वस्तु धर्मगतं तद्विषयो यस्य / परार्थनिष्पत्तिसारं च परोपकारनिष्पत्तिप्रधानं चैवं स्वरूपं प्रणिधानमवसेयम् / / 7 / / ___उ० - तत्र प्रणिधानलक्षणमाह - प्रणिधानमित्यादि / प्रणिधानं तद् यत्तत्समयेऽधिकृतधर्मस्थानप्रतिज्ञा-समये स्थितिमत्तत्सिद्धिं यावन्नियमितप्रतिष्ठं संस्कारात्मनाऽविचलितस्वभावं च / तदधः स्वप्रतिपन्नधर्म-स्थानादधस्तनगुणस्थानवर्तिजीवेषु कृपानुगं करुणानुयायि चैव न तु हीनगुणत्वात्तेषु द्वेषान्वितं च / पुनः परार्थनिष्पत्ति सारं परोपकारसिद्धिप्रधानं सर्वस्या अपि सतां प्रवृत्तेरुपसर्जनीकृतस्वार्थप्रधानीकृतपरार्थत्वात् / निरवद्यं यद्वस्तु अधिकृतधर्मस्थानसिद्ध्यनुकूलप्रतिदिनकर्त्तव्यं तद्विषयं तद्विषयध्यानम् / / 7 / / - षोडशक - 3, वृत्तिः / / तुला - प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपानुगम् / परोपकारसारं च चित्तं पापविवर्जितम् / / 11 / / वृ० - प्रणिधानमिति / प्रणिधानं क्रियानिष्ठं अधिकृतधर्मस्थानादविचलितस्वभावं / अधोवृत्तिषु स्वप्रतिपन्नधर्मस्थानादधस्ताद्वर्तमानेषु प्राणिषु कृपानुगं करुणान्वितं, न तु हीनगुणत्वेन तेषु द्वेषसमन्वितं / परोपकारसारं च परार्थनिष्पत्तिप्रधानं च / चित्तं पापविवर्जितं सावधपरिहारेण निरवद्यवस्तुविषयम् / / 11 / / ___- द्वा. द्वा., 10 - योगलक्षणद्वात्रिंशिका सवृत्तिः।। | 8- इतिकर्तव्यतामाह - सर्वत्रानाकुलता यतिभावाव्ययपरा समासेन / कालादिग्रहणविधौ क्रियेतिकर्त्तव्यता भवति / / 6 / / वृ० - य० सर्वत्र सर्वस्मिन्ननाकुलता निराकुलता अत्वरा यतेर्भावः सामायिकरूपस्तस्याऽव्ययपरा व्ययाभावनिष्ठा / अनाकुलतया यतिभावाव्ययपरा न किञ्चिद्यतिभावा व्येत्यपगच्छतीति कृत्वा तथोच्यते / विशेष्यत्वात् क्रियाऽभिसम्बध्यते / समासेन सङ्केपेण कालादिग्रहणविधौ कालस्वाध्यायादिग्रहणविधिविषया क्रिया चेष्टा स्वशास्त्रप्रसिद्धा इतिकर्तव्यता भवति इत्येवंरूपा कर्त्तव्यानां भावः कर्त्तव्यतोच्यते / / 6 / / ____उ० इतिकर्तव्यतामाह - सर्वेत्यादि / सर्वत्र सर्वस्मिन् कालादिग्रहणविधौ कालस्वाध्यायादिग्रहणाचारे कालविभाग- प्रतिनियते क्रिया योगप्रवृत्तिः समासेन सङ्क्षेपेणेतिकर्त्तव्यता भवति, रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्येति-कर्त्तव्यतापदार्थत्वात् / कीदृशी सा ? अनाकुलतयाऽत्वरया यतिभावस्य सामायिकरूपस्याव्यय-पराऽ व्यपगमनिष्टा-बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्वलक्षणो यतिभावो व्येतीत्येतद्विशेषणमुक्तम् / / 6 / / . -- षोडशक - 13, सवृत्तिः / / 9A - वृ० य० तत्रैव तु विविक्षितप्रतिपन्नधर्मस्थाने प्रवृत्तिरेवं स्वरूपा भवति / सा च न क्रियारूपा