________________ योगविंशिका गाथा-१ 77 NNNNNNNNNNNNNNN NNNNNNNNNNN उच्यते-प्रणिधानं प्रवृत्तिर्विध्नजयः सिद्धिर्विनियोगश्चेति पञ्च, आह च - 6"प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि-विनियोगभेदतः प्रायः / धर्मज्ञैराख्यातः शुभाशयः पञ्चघाऽत्र विधौ / / " [षो० 3-6] इति / तत्र “हीनगुणद्वेषाभावपरोपकारवासनाविशिष्टोऽधिकृतधर्मस्थानस्य कर्तव्यतोपयोगः प्रणिधानम्," उक्तं च - 7“प्रणिधानं तत्समये, स्थितिमत्तदधः कृपानुगं चैव / / निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारं च / / " [षो० 3-7] यत्तु प्रणिधानादि अन्ते-चैतन्यवदनान्ते प्रोक्तं, तद्भिन्न-विशिष्टतरं, पूर्वं तु सामान्यं सर्वक्रियासामान्ये भावत्वाऽऽपादकमिति भावः / कथमन्ते प्रणिधानादिभिन्नमिति चेदत्राहुः / “एयस्स समत्तीए कुसलं पणिहाणमो उ कायव्वं / एत्तो पवित्तिविग्घजयसिद्धि तहय त्थिरीकरणं / / " (पूजा. पञ्चा. 29) एतस्य चैत्यवन्दनस्य समाप्तौ कुशलं शुभं, प्रणिधानं प्रार्थनागतमेकाग्र्यम्, उ इति निपातः पादपूरणे, कर्त्तव्यं विधेयं, यस्मादितः प्रवृत्ति सद्धर्मव्यापारेषु प्रवर्त्तनं, जातमनोरथानां यथाशक्ति तदुपाये प्रवृत्तेः / विघ्नजयो मोक्षपथप्रवृत्तिप्रत्यूहस्य जघन्यमध्यमोत्कृष्टस्याऽशुभभावरूपस्य प्रणिधानजनितशुभभावान्तरेणाभिभवात् / तथा सिद्धिर्विजजयात् प्रस्तुतधर्मव्यापाराणां निष्पत्तिः / तथैव च स्थिरीकरणं स्वगतपरम(परगत)धर्मव्यापाराणां स्थिरत्वाधानं, परयोजनाध्यवसायेनाऽनुबन्धाऽविच्छेद इति यावत् / - कूपदृष्टान्तविशदीकरण, गा. 13 / / 6A - वृ० य० - प्रणिधिश्च प्रवृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च एत एव भेदाः तानाश्रित्य कर्मणि ल्यबलोपे पञ्चमी प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतः प्राय इति प्राचुर्येण शास्त्रेषु धर्म धर्मवेदिभिराख्यातः कथितः शुभाशयः शुभपरिणामः पञ्चधा पञ्चप्रकारः अत्र प्रक्रमे विधौ कर्त्तव्योपदेशे / प्रतिपादिताशयपञ्चकव्यतिरेकेण पृष्टिशद्धिलक्षणं द्वयमनबन्धि न भवतीति / / 6 / / . उ० प्रणिधानादिभेदानेवाह - प्रणिधीत्यादि / प्रणिधिश्च प्रवृत्तिश्च सिद्धिश्च विनियोगश्च विघ्नजयश्च त एव भेदास्तानाश्रित्य प्रायः प्राचुर्येण शास्त्रेषु धर्मज्ञैः शुभाशयः पञ्चधाख्यातोऽत्र पुष्टि शुद्ध्यनुबन्धप्रक्रमे विधौ विहिताचारे / / 6 / / -- षोडशक - 3, वृत्तिः / / B - तुला - प्रणिधानं प्रवृत्तिश्च तथा विघ्नजयस्त्रिधा / सिद्धिश्च विनियोगश्च एते कर्मशुभाशयाः / / 10 / / वृ० - प्रणिधानमिति / कर्मणि क्रियायां शुभाशयाः स्वपुष्टिशुद्ध्यनुबन्धहेतवः शुभपरिणामाः / पुष्टिरुपचयः शुद्धिश्च ज्ञानादिगुणविघातिघातिकर्महासोत्थनिर्मलतेत्यवधेयम् / / 10 / / - द्वा.द्वा., 10 - योगलक्षणद्वात्रिंशिका सवृत्तिः / / 7. A - वृ० तत्र प्रणिधानलक्षणमाह - य० प्रणिधानं विशेष्यं शेषपदानि विशेषणानि / तत्समये प्रतिपन्नविवक्षितधर्मस्थानमर्यादायां स्थितिमत्