________________ 76 योगविंशिका गाथा-१ विनय-भिक्षाटनाऽऽदिक्रियारूपो योगो विज्ञेयः, 'योजनाद्योग' इति व्युत्पत्त्यर्थानुगृहीतमोक्षकारणीभूताऽऽत्मव्यापारत्वरूपयोगलक्षणस्य सर्वत्र घटमानत्वात् / कीदृशो धर्मव्यापारो योगः ? इत्याहपरिशुद्धः प्रणिधानाद्याशयविशुद्धिमान्, अनीदृशस्य द्रव्यक्रियारूपत्वेन तुच्छत्वात् / / उक्तं च - 4“आशयभेदा एते, सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः / / ___ भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा / / " [षोडशक-३-१२] वृत्तिः - एते प्रणिधानादयः, सर्वेऽपि कथञ्चिक्रियारूपत्वेऽपि तदुपलक्ष्या आशयभेदाः अयं च पञ्चप्रकारोऽप्याशयो भावः / अनेन विना चेष्टा काय-वाङ्-मनोव्यापाररूपा, द्रव्यक्रिया तुच्छा असारा अभिलषितफलासाधकत्वादित्येतदर्थः / अथ के ते प्रणिधानाद्याशयाः ? 3- आलएणं विहारेणं ठाणाचंकमणेण य / सक्को सुविहिओ नाउं भासावेणइएण य / / 1148 / / वृ. आलयः वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवंविधः खल्वालयो भवति, विहारः मासकल्पादिस्तेन विहारेण, स्थानम्-ऊर्ध्वस्थानं, चङ्क्रमणं-गमनं, स्थानं च चङ्क्रमणं चेत्येकवद्भावस्तेन च, अविरुद्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्भुतगमनेन चेत्यर्थः, शक्यः सुविहितो ज्ञातुं, भाषावैनयिकेन च विनय एव वैनयिकं समालोच्चभाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः / / 1148 / / - आवश्यकसूत्र, हारि. वृत्तिः / / 4 - यशोभद्रीया० आशयभेदा आशयप्रकारा एते पूर्वोक्ताः सर्वेऽपि हि सर्व एव कथञ्चित् क्रियारूपत्वेऽपि तदुपलक्ष्यतया तत्त्वतः परमार्थेनावगन्तव्या विज्ञेयाः परिणामविशेषा एत इति / शुभाशयः पञ्चधा त्रिविधी वेत्युक्तं, स किं भावादपरोऽथ भाव एव ? इत्याशङ्कायामिदमाह - भावोऽयमिति / अयं पञ्चप्रकारोप्याशयो भाव इत्यभिधीयते / अनेन भावेन विना चेष्टा व्यापाररूपा काय-वाङ्-मनःसङ्गता द्रव्यक्रिया तुच्छा भावविकला क्रिया द्रव्यक्रिया तुच्छा असारा, स्वफलाऽसाधकत्वेन / / 12 / / उपाध्याय यशोविजयजीकृता - एवमेतान् प्रणिधानादीनुक्त्वा एषां भावत्वसमर्थनायाह - आशयेत्यादि / एते पूर्वोक्ताः सर्वेऽपि कथञ्चित् क्रियारूपत्वेऽपि तत्त्वतः परमार्थतस्तदुपलक्ष्या आशयभेदा अवगन्तव्याः / अयं पञ्चप्रकारोप्याशयो भाव उच्यते, उपयोगस्य भावनालक्षणत्वात् / अनेन भावेन विना चेष्टा काय-वाङ्मनोव्यापाररूपा तुच्छा द्रव्यक्रियात्वेन फलाजननीत्यर्थः / / 12 / / - षोडशक-३, वृत्तिः / / [5] - तुला - Axxx शुभा तत्त्वेन नैकापि प्रणिधानाद्यभावतः / / 9 / / वृ० - xxx तत्त्वेन तत्त्वतः पुनःकापि प्रणिधानाद्यभावतो नैकापि वरं, प्रणिधानादीनां क्रियाशुद्धिहेतुत्वात् / / 9 / / एतैराशययोगैस्तु विना धर्माय न क्रिया / प्रत्युत प्रत्यपायाय लोभक्रोधक्रिया यथा / / 16 / / वृ० - एतैरिति / एतैः प्रणिधानादिभिः आशययोगैस्तु विना धर्माय न क्रिया बाह्यकायव्यापाररूपा / प्रत्युतान्तर्मालिन्यसद्भावात् प्रत्यपायायेष्यमाणप्रतिपक्षविघ्नाय / यथा लोभक्रोधक्रिया कूटतुलादिसङ्ग्रामादिलक्षणा / तदुक्तं - (योगबिन्दुप्रकरणे) “तत्त्वेन तु पुनर्नकाप्यत्र धर्मक्रिया मता / तत्प्रकृत्यादिवैगुण्याल्लोभक्रोधक्रिया यथा / / 92 / / " / / 16 / / ___ - द्वा.द्वा., 10 - योगलक्षणद्वात्रिंशिका सवृत्तिः / / B न च सर्वापि जिनपूजाऽप्राधान्येनैव द्रव्यरूपा, अपूर्वत्वप्रतिसन्धान-विस्मय-भवभयादिवृद्धिभावाऽभावाभ्यां द्रव्यभावेतरविशेषस्य तत्र तत्र प्रतिपादनात् /