________________ / / ॐ ह्रीं अर्हम् नमः / / ॥ॐ ऐं नमः / / / / सर्ववाञ्छितमोक्षफलप्रदायकश्रीशङ्केश्वरपार्श्वनाथाय नमः / / / / नमोनमः श्रीगुरुरामचन्द्रसूरये / / पूर्वधरसमानकालवर्ति-समर्थशास्त्रकारशिरोमणि-पूज्यपादाऽऽचार्य-श्रीहरिभद्रसूरिविरचितं न्यायाचार्य - न्यायविशारद महामहोपाध्यायश्रीयशोविजयगणिवरविरचितविवरणविभूषितम् श्री विंशति-विंशिकाप्रकरणान्तर्गतं || योगविंशिका प्रकरणम || ऐं नमः / अथ योगविंशिका व्याख्यायते - 'मुक्खेण जोयणाओ, जोगो सव्वो वि धम्मवावारो / परिसुद्धी विन्नेओ, ठाणाइगओ विसेसेणं / / 1 / / (छाया : मोक्षण' योजनात् योगः६ सर्वोऽपि धर्मव्यापारः / . परिशुद्धः विज्ञेयः स्थानादिगतो विशेषेण / / ) मुखेण त्ति / मोक्षेण महानन्देन', योजनात् सर्वोऽपि धर्मव्यापारः साधोरालय-विहार-भाषा1] A - तुला - योगस्य लक्षणं निरूप्यते - . मोक्षण योजनादेव योगो ह्यत्र निरुच्यते / लक्षणं तेन तन्मुख्यहेतुव्यापारतास्य तु / / 1 / / वृ० - मोक्षेणेति / योगो हि योगशब्दो हि अत्र लोके प्रवचने वा मोक्षेण योजनादेव निरुच्यते व्युत्पाद्यते / तेनास्य योगस्य तु तन्मुख्यहेतुव्यापारता लक्षणं, निरुक्तार्थस्याप्यनतिप्रसक्तस्य लक्षणत्वानपायात् / / 1 / / - द्वा. द्वा., 10 - योगलक्षणद्वात्रिंशिका सवृत्तिः।। B- अधुना योगोऽभिधातव्यः, स च द्विधा - द्रव्ययोगो भावयोगश्च, तथा चाहदब्वे मणवइकाए जोगा दव्वा दुहा उ भावंमि / जोगो सम्मत्ताई पसत्थ इयरो य विवरीओ / / 1052 / / वृ ....दुहा उ भावंमित्ति द्विधैव तुशब्दस्य एवकारार्थत्वात् द्विप्रकार एव, भावे भावविषयो योगः, तद्यथा - प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः सम्यक्त्वादिः, आदिशब्दात् ज्ञानचरणपरिग्रहः प्रशस्तता चास्य युज्यते अनेनात्माऽपवर्गणेत्यन्वर्थबलात्, इतरो-मिथ्यात्वादियोगो विपरीतः-अप्रशस्तः, युज्यतेऽनेनात्मा अष्टविधेन कर्मणेति व्युत्पत्तिभावात्। .... / / 1052 / / . - आव. नि. समल. वृत्तिः / / 12] - तुला - xxx मोक्षे चानन्द उत्तमः xxx ||48 / / वृo xxx मोक्षे च मुक्तौ पुनः आनन्दः आह्लाद उत्तमः सर्वातिशायी xxx ||48 / / - योगबिन्दुः सवृत्तिः / /