________________ परिशिष्ट-३B 185 एवमन्यसूत्रेष्वपि पदार्थादयः सम्यग् उत्प्रेक्ष्य योजनीयाः / / 881 / / साम्प्रतमुक्तोपदेशव्यतिक्रमे दोषमादर्शयन्नाहः - इहरा अण्णयरगमा दिट्टेट्ठविरोहणाणविरहेण / अणभिनिविट्ठस्स सुयं इयरस्स उ मिच्छणाणंति / / 882 / / इतरथा यथोक्तपदार्थादिविभागव्यतिक्रमेण व्याख्यानकरणे श्रुतं सम्पद्यत इत्युत्तरेण सम्बन्धः / कथमित्याह - अन्यतरगमाद्, इह गमा अर्थमार्गाः, ते च प्रतिसूत्रमनन्ताः सम्भवन्ति, यथोक्तं - “सव्वनईणं जा होज्ज वालुया सव्वउदहिजं उदयं / एत्तो य अणंतगुणो अत्थो एगस्स सुत्तस्स / / 1 / / " अतोऽन्यतरश्चासौ गमश्चान्यतरगमस्तस्मादेकस्यैवार्थमार्गस्याचालिताप्रत्यवस्थापितस्य समाश्रयणादित्यर्थः, दृष्टेष्टविरोधज्ञानविरहेण दृष्टः प्रत्यक्षानुमानप्रमाणोपलब्धः, इष्टश्च शास्त्रादिष्टोऽर्थस्तयोर्विरोधे बाधायां यज्ज्ञानामवबोधस्तस्य विरहेणाभावेन, अनभिनिविष्टस्येत्थमेवेदं वस्त्वित्यकृताग्रहस्य श्रुतमागमार्थोऽधी-यमानः सम्पद्यते, न तु चिन्ताज्ञानभावनाज्ञानरूपज्ञानतां प्रतिपद्यते / इह त्रीणि ज्ञानानि श्रुतज्ञानादीनि / तल्लक्षणं चेदं - “वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् / श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशर-हितमलम् / / 1 / / यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् / उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत् स्यात् / / 2 / / ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः / एतत्तु भावनामयशुद्धसद्रत्न-दीप्तिसमम् / / 3 / / " अशुद्धसद्रत्नदीप्तिसममिति / अशुद्धस्य मलिनस्य च ततः प्राक् सतः सुन्दरस्य रत्नस्य पद्मरागादेर्दीप्त्या तुल्यमिति / इतरस्य त्चिति अभिनिविष्टस्य पुनर्मिथ्याज्ञानं मिथ्याश्रुतरूपतां प्रतिपद्यते / इदमुक्तं भवति - इह कश्चित् ‘एगे आया' इति स्थानाङ्ग प्रथमसूत्रस्य “श्रवणांदेक एव हि भूतात्मा देहे देहे व्यवस्थितः / एकधा बहुधा वापि दृश्यते जलचन्द्रवत् / / 1 / / " इत्येवं प्रतिपन्नात्मा-द्वैतवादः सङ्ग्रहनामैकनयाभिप्रायेणेदं सूत्रं प्रवृत्तमिति परमार्थमजानानः, तथाऽत्र मते दृष्टस्य पुरुषनाना-त्वस्येष्टस्य च संसारापवर्गविभागस्य बाधामपश्यंस्तथाविधज्ञानावरणक्षयोपशमाभावादेकात्मसत्त्वलक्षण-मेवैकमर्थमार्गमधितिष्ठते, निराग्रहश्च प्रकृत्या तस्य सोऽर्थमार्गः श्रुतं, न तु चिन्ताभावनाज्ञानरूपम् / यस्तु स्वबोध एवाभिनिविष्टो गीतार्थः प्रज्ञाप्यमानोऽपि न सम्यग्मार्गार्थं प्रतिपद्यते तस्य तन्मिथ्याज्ञानमेव / एवमन्यसूत्रेष्वपि भावना कार्येति / / 882 / / आह - एवं प्रतिनियतसूत्रोद्देशेन लोके पदार्थादयो रूढास्तत्कथमित्थमेतत्प्रज्ञापना क्रियते ? सत्यम्; - लोउत्तराउ एए एत्थ पयत्थादओ मुणेयव्वा / अत्थपदणाउ जम्हा एत्थ पयं होइ सिद्धति / / 883 / /