________________ 184 परिशिष्ट-३B एव / समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा पडिहयपञ्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिला माणस्स किं कज्जति ? गोयमा ! बहुया से निज्जरा अप्पे पावकम्मेत्ति” / तथा, समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अप्पडिहयपच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाणखाइमसाइमेणं. पडिलाभेमाणस्स किं कज्जति ?, एगंतसो पावं कम्मे कज्जति” / तथा, मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ / अणुकंपादाणं पुण जिणेहिं न कयावि पडिसिद्धं / / 1 / / संथरणम्मि असुद्धं दोण्हवि गिण्हंतदेंतयाणऽहियं / आउरदिटुंते णं तं चेव हियं असंथरणे / / 2 / / " आदिधार्मिकमाश्रित्य पुनरयमागमः . “पात्रे दीनादिवर्गे च दानं विधिवदिष्यते / पोष्यवर्गाऽविरोधेन न विरुद्धं स्वतश्च यत् / / 1 / / व्रतस्था लिङ्गिनः पात्रम-पात्रास्तु विशेषतः / स्वसिद्धान्ताविरोधेन वर्त्तन्ते ये सदैव हि / / 2 / / " एवं चागमे व्यवस्थिते तद्बाधया आगमोल्लंघनरूपया विधिप्रतिषेधयोः क्रियमाणयोर्दोष इत्येष जीववधादिलक्षणो महावाक्यार्थगम्यस्तु महावाक्यार्थगम्य एव / / 879 / / महावाक्यार्थमेव निगमयन्नैदम्पर्यमाह; - इय एयस्साबाहा दोसाभावेण होइ गुणहेऊ / एसा य मोक्खकारणमइदंपज्जं तु एयस्स / / 880 / / इत्येवमागमवाधायां दोषे सति एतस्यागमस्याबाधाऽनुल्लङ्घनमुत्सर्गासेवनेनापवादासेवनेन वा दोषाभावेनाशातनापरिहाररूपेण भवति गुणहेतुः / एषा चेयमेवागमाबाधा मोक्षकारणं निर्वृतिहेतुरित्यैदम्पर्य त्वेतस्य दानसूत्रस्येति / / 880 / / न केवलमनन्तरोदितकतिपयपदार्थविषयमेव पदवाक्यादिसमनुगतं सर्ववित्प्रणीतागमव्याख्यानं, किन्तु सकलसूत्रविषयमिति मनसि समाधायाह; एवं पइसुत्तं चिय वक्खाणं पायसो बुहजणेण / कायव्वं एत्तो खलु जायइ जं सम्मणाणं तु / / 881 / / एवमुक्तक्रमेण प्रतिसूत्रमेव यावन्ति सूत्राणि तान्यङ्गीकृत्येत्यर्थः / व्याख्यानं प्रायशो बुधजनेनावगतसमयरहस्येन साधुना कर्त्तव्यम् / कुत इत्याह - इतो व्याख्यानात् खलु निश्चयेन जायते यद्यस्मात् सम्यग्ज्ञानं त्वविपर्यस्तबोधः / यथा - मध्यमतीर्थकृतां चत्वारि महाव्रतानि, प्रथमपश्चिमयोस्तु पञ्चेति / अत्र श्रौत एव शब्दार्थः - एतेषां चत्वारि महाव्रतानि प्राणातिपातमृषावादादत्तादानपरिग्रहविरमणरूपाणि, प्रथमचरमयोस्तु पञ्च महाव्रतानि सह मैथुनविरत्या इत्येवं वाक्यार्थः / रागद्वेषावेव परिग्रहः, तद्भावनान्तरीयकत्वात् तदुपयोगस्येति महावाक्यार्थः / एवमेव निष्परिग्रहता, अन्यथा तद्भावेऽपि न तद्दोषनिवृत्तिरित्यैदम्पर्यमिति /