________________ परिशिष्ट-३B 183 दाणपसंसाईहिं पाणवहाईओ उजुपयत्थत्ति / एए दोवि हु पावा एवंभूओऽविसेसेणं / / 877 / / दानप्रशंसादिभिर्दानप्रशंसया, आदिशब्दात् तन्निषेधदेशनया च प्राणवधादिः दानप्रशंसायां प्राणिवधा, तन्निषेधे च क्षपणादिलाभान्तरायः / अत एव सूत्रकृतांगे पठ्यते - “जे उदाणं पसंसंति वहमिछंति पाणिणं / जे णं पडिसेहति वित्तिछेयं कुणंति ते / / 1 / / 'उजुपयत्थोत्ति' अयं च ऋजुरेव पदार्थः / एनमेवाह - एतौ द्वावपि प्राणिवधकरणादिवृत्तिव्यवच्छेदौ पापावसमंजसौ वर्तेते एवंभूतः पदार्थोऽविशेषेण सामान्येन / अयमभिप्रायः - धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम् / जनप्रियकरं दानं दानं सर्वार्थ-साधनम् / / 1 / / इत्यादिभिर्वचनैर्नानारूपस्य जनप्रसिद्धस्य शस्त्रादिरूपदानस्य स्वभावत एव पृथिव्यादिजीवहिंसात्मकस्य प्रशंसायां नियमात् साधोर्जीवहिंसानुमतिः सम्पद्यते / तथा; तथाविधशास्त्रसंस्कारात् स्वयमेव कैश्चिद्धर्मार्थिभिः प्रवर्त्यमानस्योक्तरूपस्य दानस्य “बीजं यथोषरे क्षिप्तं न फलाय प्रकल्पते / तथाऽपात्रेषु दानानि प्रदत्तानि विदुर्बुधाः / / 1 / / " : इत्यादिवचनैर्निषेधे क्रियमाणे क्षपणादिलाभान्तरायः सम्पद्यत इति / / 877 / / एवं पडिवत्तीए इमस्स तह देसणाए वोच्छेओ / तम्हा विसेसविसयं दद्वव्वमिणंति वक्वत्थो / / 878 / / एवमविशेषेण प्रतिपत्तौ पदार्थस्य तथाविधरूपतया वा दानविषयाया देशनाया व्यवच्छेदः प्राप्तः / न चासौ युक्तो, यतो दानशीलतपोभावनात्मकस्य धर्मस्य सर्वास्तिकशास्त्रेषु प्रतिपादयितुमधिकृतत्वात् / तस्मादहो सूरे ! विशेषविषयं विभागेनेत्यर्थः, द्रष्टव्यमिदं दानविधानं तन्निषेधनं चेति वाक्यार्थः / / 878 / / आगमविहितं तम्मि पडिसिद्धं वाहिगिश्च णो दोसो / . तब्बाहाए दोसोत्ति महावकत्थगम्मं तु / / 879 / / - आगमविहितं शास्त्रानुमतं यद्दानं, तस्मिन्नेवागमे प्रतिषिद्धं वा निवारितं यत् तदधिकृत्य देशनायां दानस्य विधिविषयायां प्रतिषेधविषयायां च क्रियमाणायां न दोषो जीवहिंसानुमत्यादिलक्षणः कश्चित् प्रज्ञापयितुः सम्पद्यते / यदागमे विहितं दानं तस्य विधिदेशनायां, यञ्च तत्र निषिद्धं तन्निषेधदेशनायां च न कश्चिद् दोष इत्यर्थः / तत्र चायमागमः - “नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं देसकालसद्धासक्कारकमजुयं आयाणु-ग्गहबुद्धीए संजयाणं दाणं" / तथा, समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा पडिहयपञ्चक्खा-यपावकम्म फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिला माणस्स किं कजति ?, गोयमा ! एगंतसो निजरा