________________ 182 परिशिष्ट-3B एवं तवझाणाई कायव्वंति पयडो पयत्थो यं / छट्ठस्सग्गाईणं करणं ओघेण लोगम्मि / / 873 / / एवं प्रागुक्तपदार्थवत् ‘मुमुक्षुणा तपोध्यानादि कर्त्तव्यम्' इत्यत्र प्रकटः स्फुटः पदार्थोऽयं यथा षष्ठोत्सर्गादीनां षष्ठादीनां तपोविशेषाणामुत्सर्गादीनां च कायोत्सर्गकायक्लेशादिलक्षणानां करणं विधानम्, ओघेन सामान्येन समर्थासमर्थादिपरिहाराविशेषरूपेण लोकेऽपि धार्मिकजनलक्षणे रूढं वर्त्तत इति / / 873 / / तुच्छावत्ताणंपि हु एत्तो एयाण चेव करणं ति / अकरणमो दट्ठव्वं अणिट्ठफलयंति वक्वत्थो / / 874 / / तुच्छा असमर्था बालवृद्धादिलक्षणाः, अव्यक्ताश्चागीतार्थास्तेषां, न केवलमितरेषामित्यपिशब्दार्थः, इतो वचनादेषामेव षष्ठोत्सर्गादीनां करणं प्राप्तम्, तेषामपि मुमुक्षुत्वात् / इतिः प्राग्वत् / एतञ्च तपोध्यांनादिकरणमकरणं द्रष्टव्यं तुच्छाव्यक्तादीनाम् / कुतो, यतोऽनिष्टफलदं शक्त्यतिक्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्त्तध्यानत्वेन तिर्यग्गत्याद्यशुभजन्महेतुत्वात् / इत्येष वाक्यार्थः / / 874 / / आगमणीईए तओ एयाणं करणमित्थ गुणवंतं / एसा पहाणरूवत्ति महावकत्थविसओ उ / / 875 / / आगमनीत्या आगमानुसारेण यत एवं महान् दोषस्तत एतेषां तपोध्यानादीनां करणमत्र धर्माधिकारे गुणवद् गुणावहम् / आगमनीतिश्चेयं - "तो जह न देहपीडा न यावि चियमंससोणियत्तं च / जह धम्मझाणवुड्डी तहा इमं होइ कायव्वं / / / / " तथा / “कायो न केवलमयं परितापनीयो, मिष्टै रसैर्बहुविधैर्न च लालनीयः / / चित्तेन्द्रियाणि न चरन्ति यथोत्पथेन, वश्यानि येन च तदाचरितं जिनानाम् / / 2 / / " एषा आगमनीतिः प्रधानरूपा सारभावमागता वर्त्तते धर्मे साध्ये / इत्येष महावाक्यार्थविषयः पुनरवगन्तव्यः / / 875 / / . अत्रापि महावाक्यार्थनिगमनेनैदम्पर्यमाह - एवं पसत्थमेयं णियफलसंसाहगं तहा होइ / इय एस चिय सिट्ठा धम्मे इह अइदंपजं तु / / 876 / / एवमागमनीत्या प्रशस्तं प्रशंसास्पदमेतत्तपोध्यानादि भवति सतां / तथा निजफलसंसाधकं मोक्षलक्षणफलहेतुः / तथेति समुच्चये / भवत्येषैवागमनीतिरेव श्रेष्ठा प्रधाना धर्मे इहैदम्पर्यमिदं पुनर्जेयम् / / 876 / / तथा; -