________________ परिशिष्ट-३B 181 ___B.. / / उपदेशपद / / एवं चइज्ज गंथं इत्थ पयत्यो पसिद्धगो चेव / णो किंचिवि गिहिज्जा सचेयणाचेयणं वत्थु / / 869 / / एवं प्रागुक्तपदार्थवत् त्यजेद् ग्रन्थम् / अत्र वचने पदार्थः प्रसिद्धकश्चैव प्रतीतरूप एव / तमेव दर्शयति नो किञ्चिदपि गृह्णीयात् परिग्रहविषयीकुर्यात् सचेतनाचेतनं शिष्यवस्त्रादि वस्तु / / 869 / / एत्तो अईयसावेक्खयाण वत्थाइयाणमग्गहणं / तग्गहणं चिय अहिगरणवुड्डिओ हंदि वक्कत्थो / / 870 / / इतोऽस्मात् त्यजेद् ग्रन्थमित्येवंरूपाद्वचनात् / अतीतसापेक्षतादीनामतीतातिक्रान्ता सापेक्षता शरीरमात्रेऽपि स्पृहारूपा. येषां ते तथा तेषां भावसाधूनामित्यर्थः, वस्त्रादीनां वस्त्रपात्रशिष्यादीनां वस्तूनामग्रहणमापन्नम् / एतञ्च वस्त्राद्यग्रहणं तद्ग्रहणमेव मिथ्यात्वादिरूपग्रन्थग्रहणमेव / कुत इत्याह * अधिकरणवृद्धितोऽधिक्रियत आत्मा नरकादिष्वनेनेत्यधिकरणमसंयमस्तस्य वृद्धिरुपचयस्तस्याः सकाशात् सम्पद्यत एव रजोहरणाद्युपधिमन्तरेण जिनकल्पिकादीनामप्यसंयमवृद्धिः / हंदीति पूर्ववत् / एष वाक्यार्थो, यथा न सर्वथा ग्रन्थत्यागः श्रेयान्, य उच्यते 'चएज गंथं' इत्यादिवचनेनेति / / 870 / / आणाबाहाए तहा गहणंपि ण सुंदरंति दट्ठव्वं / ता तीए वट्टियव्यंति महावकत्थमो णेओ / / 871 / / . आज्ञाबाधया “जिणा बारसरूवाणि थेरा चउदसरूविणो / अजाणं पन्नवीसं तु अओ उड्डमुवग्गहो / / 1 / / " इत्यादिवचनोल्लङ्घनेन तथेत्यधिकरणवृद्धिभयाद् ग्रहणमिति वस्त्रादीनां न सुन्दरमिति द्रष्टव्यं, किं पुनः सर्वथैवाग्रहणमित्यपिशब्दार्थः / तत् तस्मात् तस्यामाज्ञायां वर्तितव्यमिति महावाक्यार्थो ज्ञेय इति / / 871 / / महावाक्यार्थमेव गाथाप्रथमार्द्धन निगमयन्नैदम्पर्यमाह; - एयं एवं अहिगरणचागओ भावओ कयं होइ / एत्थवि. आणातत्तं धम्मस्स इदं इदंपजं / / 872 / / एतद् ग्रन्थत्यजनं 'चएज गंथं' इति वचनोक्तमेवमाज्ञानुसरणेनाधिकरणत्यागतोऽसंयमपरित्यागाद् भावतः परमार्थेन कृतं भवति / यो ह्याज्ञामनुसरन् वस्त्रादिग्रहणे प्रवर्त्तते तस्य कदाचित् कथञ्चनासंयमभावेऽपि बहुतरगुणान्तराराधनेन भावतोऽधिकरणत्याग एव, तदर्थत्वेनैव तस्य सर्वक्रियासु प्रवृत्तेरिति / अत्रापि पदार्थादिषु ‘जह्याद् ग्रन्थं' इत्यादिषु आज्ञातत्त्वं धर्मस्येतीदमेतत् ‘इदंपजंति ऐदम्पर्यम् / / 872 / /