________________ 180 परिशिष्ट-३A एष पदार्थः यदेतौ द्वौ दानप्रशंसानिषेधौ महापापावशुभगतिलाभान्तरायादिप्रबलपापप्रकृतिबन्धहेतुत्वादिति / / 168 / / वक्वत्थो पुण एवं विच्छेओ होज्ज देसणाईणं / एयं विसेसविसयं जुजइ भणिअं तु वोत्तं जे / / 169 / / वाक्यार्थः पुनरेवमभ्युपगम्यमाने, देशनादीनां पात्रापात्रादिविषयदानविधिनिषेधादिदेशनादीनां विच्छेदः स्यात् - “धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम् / जनप्रियकरं दानं दानं सर्वार्थसाधनम् / / 1 / / बीजं यथोषरे क्षिप्तं न फलाय प्रकल्प्यते / तथाऽपात्रेषु यद्दानं निष्फलं तद्विदुर्बुधाः / / 2 / / " इत्यादिदेशनाप्रवृत्तौ जीवहिंसानुमतिलाभान्तरायप्रसङ्गस्य वज्रलेपायमानत्वात् / तस्मादेतद्भणितं तु विशेषविषयं वक्तुं युज्यते / 'जे' इति पादपूरणार्थो निपातः / / 169 / / आगमविहिअणिसिद्धे अहिगिश्च पसंसणे णिसेहे अ / लेसेण वि णो दोसो एस महावक्कगम्मत्थो / / 170 / / आगमे सिद्धान्ते विहितं निषिद्धं च दानमधिकृत्य प्रशंसने निषेधे च लेशेनापि नो दोषः, सत्प्रवृत्तिरूपस्य विहितदानव्यापारस्य हिंसारूपत्वाभावेन तत्प्रशंसने हिंसानुमोदनस्याऽप्रसङ्गात्, प्रत्युत सुकृतानुमोदनस्यैव सम्भवात् / निषिद्धदानव्यापारस्य चासत्प्रवृत्तिरूपस्य निषेधे वृत्तिच्छेदपरिणामाभावेनान्तरायानर्जनात्, प्रत्युत परहितार्थप्रवृत्त्यान्तरायकर्मविच्छेदादेव / तदिदमुक्तमुपदेशपदे - “आगमविहिअं तं ते पडिसिद्धं चाहिगिच णो दोसो त्ति" / / (879) आगमविहितं संस्तरणे सुपात्रे शुद्धभक्तादिदानमसंस्तरणे त्वशुद्धभक्तादिदानमपि तन्न निषिद्धं, निषिद्धं च कुपात्रदानादिकमनुकम्पादानं तु क्वापि न निषिद्धं यदाह - “मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ / अणुकंपादाणं पुण जिणेहिं न कया वि पडिसिद्धं" / / एष महावाक्यगम्योऽर्थः / / 170 / / . अइदंपजत्थो पुण मोक्खंग होइ आगमाबाहा / एवं पइसुत्तं चिय वक्खाणं पायसो जुत्तं / / 171 / / ऐदम्पर्यार्थः पुनर्मोक्षाङ्गं भवति आगमाऽबाधा-आगमार्थानुल्लङ्घनं / अतिदेशमाहएवमुपदर्शितप्रकारेण, प्रतिसूत्रंन्यावन्ति सूत्राण्यङ्गीकृत्य, प्रायशो व्याख्यानं युक्तं, अतिसंक्षिप्तरुचिश्रोत्राद्यपेक्षया प्रायश इत्युक्तम् / / 171 / /