________________ परिशिष्ट-३A 179 एयमगहणं भावा अहिगरणञ्चायओ मुणेअव्वं / एस महावक्कत्थो अइदंपजं तु पुव्वुत्तं / / 164 / / यत एतद् वस्त्रादिग्रहणम्, भावात्तत्त्वतोऽधिकरणत्यागत आर्त्तध्यानादिपरिहारादग्रहणम्, मुणेअव्वंति ज्ञातव्यम्, अग्रहणपरिणामोपष्टम्भकं ग्रहणमपि खल्वग्रहणमेव, एष महावाक्यार्थः, एदम्पर्यन्तु पूर्वोक्तं 'आजैव सर्वत्र धर्मे सार' इति / / 164 / / वाक्यान्तरमधिकृत्याह - तवज्झाणाइ कुजा एत्थ पयत्थो उ सव्वहिं ओहा / छठुस्सग्गाईणं करणं सेयं सिवटुंति / / 165 / / तपोध्यानादि कुर्यादत्र वाक्ये पदार्थस्तु सर्वत्र ओघेनन्समर्थासमर्थादिपरिहारसामान्येन, शिवार्थ-मोक्षार्थं षष्ठोत्सर्गादीनां करणं श्रेय इति / / 165 / / तुच्छावत्ताईणं तक्करणं अकरणं अओ पत्तं / बहुदोसपसंगाओ वक्कत्थो एस दट्ठव्यो / / 166 / / तुच्छा:-असमर्था बालवृद्धादिलक्षणाः, अव्यक्ताश्चागीतार्थाः, आदिनावश्यकहानियोग्यादिग्रहस्तेषामतःपदार्थात् तत्करणं-षष्ठोत्सर्गादिकरणं प्राप्तं बहुदोषप्रसङ्गात्, शक्तयतिक्रमेण तपोध्यानादिकष्टानुठानस्यार्त्तध्यानमयत्वेन तिर्यगाद्यशुभजन्माद्यापत्तेः करणं तत्त्वतोऽकरणमेव तत्, एष वाक्यार्थो द्रष्टव्यः - / / 166 / / . . एस महावक्कत्थो समयाबाहेण एत्थ जमदोसो / .सव्वत्थ समयणीई अइदंपजत्थओ इट्ठा / / 167 / / एष महावाक्यार्थः यत्समयाबाधेनाऽऽगमानुल्लङ्घनेन अत्रादोषः, आगमश्चायमत्र व्यवस्थितः - "तो जह न देहपीडा न या वि चियमंससोणियत्तं च / जह धम्मज्झाणवुड्डी तहा इमं होइ कायव्वं / / " ऐदम्पर्यार्थतः ऐदम्पर्यार्थमाश्रित्य, सर्वत्र समयनीतिरागमनीतिरेव इष्टाऽभिमता, तस्या एव सर्वत्राधिकार्यनधिकार्यादिविभागप्रदर्शनहेतुत्वात् / / 167 / / वाक्यान्तरमप्यधिकृत्याह - दाणपसंसणिसेहे पाणवहो तह य वित्तिपडिसेहो / एत्थ पयत्थो एसो जं एए दो महापावा / / 168 / / दानप्रशंसायां प्राणवधस्तनिषेधे च वृत्तिप्रतिषेधः, एतेनेदं सूत्रकृतांगसूत्रं लक्ष्यते - (अ. ११-सू. 20) “जे उ दाणं पसंसंति वहमिच्छंति पाणिणं / जे अणं पडिसेहति वित्तिच्छेयं कुणंति ते / / " इति / अत्र . . 7 / /