________________ 186 परिशिष्ट-३B लोकोत्तरास्तु जैनेन्द्रशासनानुसारिणः पुनरेतेऽनन्तरोक्ताः 'न हिंस्याद् भूतानि' इत्येवंलक्षणा अत्र प्रकृते पदार्थदयो मुणितव्याः / ननु 'न हिंस्याद् सर्वभूतानि' इति वाक्यमेते एव, क्रियाधिष्ठितपदसमुदायात्मक-त्वात्, अतः कथमेतदोघार्थः पदार्थो भवतीति ? उच्यते - अर्थपदनात् अर्थस्य सामान्यरूपस्य अचालिता-प्रत्यवस्थापितस्य पदनात् गमनात् प्रत्यायनादित्यर्थः, यस्मादत्र प्रथमे पदं भवति सिद्धं प्रतिष्ठितं इत्यस्माद्धेतोरोघार्थः पदार्थ एव / एवं वाक्यार्थादयोऽपि सद्भूतविशिष्टतरविशिष्टतमार्थपदनादेव स्वं स्वरूपं लभन्ते, न पुनर्बहुबहुतरपदसमूहमयत्वेन फल्गुरूपतयाऽर्थविशेषं कञ्चनापादयन्तो लौकिक-शास्त्रेष्विवेति / / 883 / / लोयम्मिवि अत्थेणं णाएणं एवमेव एएत्ति / विण्णेया बुद्धिमया समत्थफलसाहगा सम्मं / / 884 / / तथा लोकेऽपि शिष्टजने, अर्सेन न्यायेनार्थापत्त्येत्यर्थः, एवमेव लोकोत्तरपदार्थादिप्रकारेणैते पदार्थादयः, इतिः प्राग्वत्, विज्ञेया बुद्धिमता जनेन समर्थफलसाधकाः प्रौढशास्त्रार्थप्रतीतिहेतवः, सम्यग् यथावत् / तथा हि लोके - “संहिता च पदं चैव पदार्थः पदविग्रहः / चालना प्रत्यवस्थानं व्याख्यानं तस्य षड्विधम् / / 1 / / " इति व्याख्याक्रमः / अत्र च पदार्थो लोकोत्तरपदार्थतुल्य एव, अविशिष्टार्थपदार्थ-गम्यत्वात् / चालना वाक्यार्थः, प्रत्यवस्थानं तु महावाक्यार्थः / ऐदम्पर्यं चात्र व्याख्यालक्षणे साक्षादनुक्तमपि सामर्थ्यादुक्तमेव द्रष्टव्यं, संहितादिव्याख्यानांगैाख्यार्थस्यैदम्पर्यविषयत्वात् / / 884 / / अथ लोकोत्तरदृष्टान्तद्वारेण लौकिकपदार्थस्वरूपमभिधत्ते; - वक्खाइसइओ जं अविसिट्ठा चेव होइ बुद्धित्ति / उत्तर धम्मावेक्खा जहेव हिंसाइसद्दाओ / / 885 / / वृक्षादिशब्दतो वृक्षघटपटादिशब्देभ्यो यद् यस्मादविशिष्टा चैवात्र निम्बादिविशेषैरनालीदैव भवति बुद्धिरिति प्राग्वत् / कीदशीत्याह - उत्तरधर्मापेक्षा वृक्षस्योत्तरधर्मा मूलकन्दस्कन्धादयो जम्बूनिम्बादयश्च, घटादीनां तु ताम्ररजतसौवर्णादयः, तानपेक्षते आकाङ्क्षते या सा तथा / यथैव हिंसादिशब्दाद् “हिंस्याद् न सर्वभूतानि” इत्यादिलक्षणात् / तत इदमदापन्नं - यथा हिंस्यान सर्वभूतानीत्यादयः शब्दाः पदार्थवाक्यार्थादिप्रकारेण निराकाङ्क्षस्वार्थप्रतिपादका भवन्ति, तथा वृक्षादयोऽपि शब्दाः पदार्थवाक्यार्थमहावाक्याथैदम्पर्यविषयभावमापन्नाः श्रोतृप्रतीतिमविकलामाराधयन्तीति / तथाहि - दूरे शाखादिमन्तं पदार्थमुपलभ्य कश्चित् कश्चित् प्रति ब्रूयात् 'अग्रे वृक्षस्तिष्ठति' इति / तस्य च श्रोतुः श्रौत एव शब्दार्थः पदार्थः, अयं च वृक्षो भवन् किमाम्रो निम्बो वा स्यादिति चालनारूपो वाक्यार्थः, ततः प्रतिविशिष्टाकारावलोकनेनाम्र एव निम्बादिर्वायमिति प्रतिनियतः प्रत्ययो महावाक्यार्थः, इत्थमेव निर्णयपुरःसरसमाम्राद्यर्थिना प्रवर्तितव्य-मित्यैदम्पर्यमिति / / 885 / /