________________ 166 परिशिष्ट-१. रूपसाधना प्रथमकारणरूपं जिनेश्वरं वीतरागादिगुणसमूहैः अवलम्बते, यावत् मुद्राद्यवलम्बना तावत् रूप्यवलम्बनी, स एव अर्हत्सिद्धस्वरूपं ज्ञानदर्शनचारित्राद्यनन्तपर्यायविशुद्धाऽध्यात्मधर्ममवलम्बते, इति अरूप्यवलम्बनी, तत्र भाव्यते अनादितः जीवः मूर्तपुद्गलस्कन्धावलम्बपरिणतः, कथम् ? प्रथमतः एवाऽमूर्तानन्दरूपं स्वरूपमवलम्बते अतः अतिशयोपेतवीतरागमुद्रादिकं परं मूर्तं चाऽऽलम्ब्य / विषयकषायवृद्धिकरं स्त्रीधनाद्यवलम्बनं त्यजति, इत्येका परावृत्तिः, पुनः स एव अतिशयादिरूप-मूर्तावलम्बनी यः अहं तु अमूर्त्तभावरसिकत्वेनोपयुज्यते, अद्यापि अर्हतः सम्बद्धं तथापि औदयिक नाऽऽ-लम्बनं, मम तु गुणाऽवलम्बनं उत्तममिति गुणाऽवलम्बनी मूर्त्तान् भवान् नऽरसिकत्वेन गृह्णाति, सापेक्षः परत्वेन पश्यति इति द्वितीया परावृत्तिः, एवं अमूर्तात्मगुणरसिकः भवति तेन परमेष्ठिस्वरूपकारणेनाऽवधीर्य स्वकीयाऽसङ्ख्यप्रदेशव्याप्यव्यापकभावाऽवच्छिन्नद्रव्यास्तिकपर्यायास्तिकाऽनन्तस्वभावममलऽमूर्ताऽऽनन्दमयं ध्येयत्वेनाऽऽलम्बते, इति किं तृतीया परावृत्तिः, इति साधन-पद्धतिः सर्वेषां तत्स्वरूपसाधनं अरूपिगुणाः सिद्धगुणाः तेषां भावनं सायुज्यं तदात्मता, तया योगः, आत्मोपयोगयोजनं यद्यपि ईषदवलम्बनं श्रुतादीनां, तथापि अनालम्बनमेव यः उत्कृष्टो योगः / उक्तं च - तत्राऽप्रतिष्ठितोऽयं, यतः प्रवृत्तश्च तत्त्वतस्तत्र / सर्वोत्तमानुजः खलु, तेनाऽनालम्बनो गीतः / / 9 / / (षोडशक-१५।।) / / 6 / / निरालम्बनयोगेन धारावाही प्रशान्तवाहिता नाम चित्तं तस्य स्वरसत एव मनः सहजधारायां वर्त्तते, न प्रयासो भवति / उक्तं च - (योग)विंशिकायाम् - आलंबणं पि एयं रूवमरूवी य इत्थ परमु त्ति / तग्गुणपरिणइरूवो, सुहुमो अणालंबणो नाम / / 19 / / एकाग्रयोगस्यैवापरनाम अनालम्बनयोग इति, एवं स्थानाद्याः पञ्च इच्छादेर्गुणिता विंशति (20) र्भवन्ति, ते च प्रत्येकमनुष्ठानचतुष्कयोजिता अशीति (80) प्रकारा भवन्ति, तत्स्वरूपनिरूपणायोपदिशति - प्रीति-भक्ति-वचो-ऽसङ्गैः स्थानाद्यपि चतुर्विधम् / तस्मादयोगियोगाप्तेर्मोक्षयोगः क्रमाद् भवेत् / / 7 / / प्रीतिभक्तीति / एते स्थानादयः, प्रीतिः भक्तिः वचनं असङ्ग इति भेदचतुष्टयेनाऽशीतिभेदा भवन्ति, तस्मात् योगात् क्रमेण अयोगिनामा योगः, तस्याऽऽप्तिः प्राप्तिः भवति, अयोगियोगं / शैलेशीकरणं, सकलयोगचापल्यरहितो योगः प्राप्नोति, तेन पुनः क्रमान्मोक्षः सर्वकर्माऽभावलक्षणः “आत्मनः तादात्म्य / ऽवस्थानं मोक्षः” एवं योगसंयोगः क्रमात् अनुक्रमेण भवति /