________________ परिशिष्ट-१ 165 HNNNNNNNNNNNNNN NNNNNNNNNNNNNNNNNNNNNNNNNN इति इत्येवं योगद्वयं बाह्यरूपत्वात् क्रियामुख्यत्वात् साध्यऽवलम्बिना कारणरूपं / शेषाणां तु शुभबन्धनिबन्धनं स्थैर्य बाधकाऽशुद्धाध्यवसाया अतिचाराः तेषां भीर्भयं तस्या हानिः अभावः निरति-चारगुणपालनारूपं यत्र क्षयोपशमोऽपि अतिगुणसाधनापरिणमनेन सहजभावत्वात् निर्दोषगुणसाधना भवति यत्र तत् स्थैर्यं / उक्तं च - योगविंशिकायाम् - तह चेव एयबाहगचिन्तारहियं थिरत्तणं नेयं xxx / / 6 / / शुद्धानां अर्थाना परमात्मरूपाणां साधनं स्वरूपाऽवलम्बनं सिद्धिः / उक्तं च - योगविंशिकायां - xxx सव्वं परमत्थसाहगरूवं पुण होइ सिद्धि त्ति / / 6 / / एवं सप्रभेदं ज्ञेयम् / / 4 / / यावत् ध्यानैकत्वं न भवति तावत् न्यासमुद्रावर्णशुद्धिपूर्वकम्, आवश्यकचैत्यवन्दनप्रत्युपेक्षणादिकम् उपयोगयोगचापल्यवारणार्थमवश्यं करणीयं, महद्धितकरं सर्वजीवानां, तेन स्थानवर्णक्रमेण तत्त्वप्राप्तिरिति / अर्थाऽऽलम्बनयोश्चैत्य-वन्दनादौ विभावनम् / श्रेयसे योगिनः स्थान-वर्णयोर्यत्नमेव च / / 5 / / अर्थाऽऽलम्बनयोरिति / अर्थो वाक्यस्य भावार्थः, आलम्बनं वाच्ये पदार्थे अर्हत्स्वरूपे उपयोगस्यैकत्वं, अर्थश्च आलम्बनश्च अर्थाऽऽलम्बनौ, तयोः चैत्यवन्दनादौ अर्हद्वन्दनाधिकारे विभावनं स्मरणं करणीयं श्रेयसे कल्याणार्थम्, च पुनः स्थानः वन्दनककायोत्सर्गशरीराऽवस्थानं आसनमुद्रादि, वर्णः अक्षरादि, तयोः शुद्धौ यत्न एव श्रेयसे कल्याणाय भवति / उक्तं चावश्यके - जं वाइद्धं, वयामे-लियं, हीणक्खरं, अक्खरं, पयहीणं, विणयहीणं, घोसहीणं, जोगहीणं, सुट्टदिन्नं, दुटुपडिच्छियं, अकाले कओ सज्झाओ, काले न कओ सज्झाओ, असज्झाइए सज्झाइयं सज्झाइए न सज्झाइयं तस्स मिच्छामि दुक्कडं" इत्यनेन द्रव्यक्षेत्रकालविशुद्धौ भावसाधनसिद्धिः तेन द्रव्यक्रिया हिता / / 5 / / आलम्बनमिह ज्ञेयं, द्विविधं रूप्यरूपि च / अरूपि गुणसायुज्य-योगोऽनालम्बनं परम् / / 6 / / आलम्बनमिति / इह जैनमार्गे 'आलम्बनं द्विविधं ज्ञेयं द्विप्रकारं ज्ञेयं, एक रूपि, अपरं अरूपि, तत्र रूप्यवलम्बनं-जिनमुद्रादिकपिण्डस्थपदस्थपर्यन्तं, यावदर्हदवस्थाऽवलम्बनं तावत्कारणाऽऽवलम्बनं शरीराऽतिशयोपेतं रूप्यवलम्बनं, तत्र अन्नाऽऽदिपरभावशरीरधन-स्वजनाऽवलम्बी, परत्र परिणतचेतनविश्वैश्वर्याद्यर्थं तीर्थकराद्यवलम्बनमपि भवहेतुः, तथैव यः स्वरूपाऽऽनन्दपिपासितः स्व