________________ 164 परिशिष्ट-१ wwwwww स्थानस्वरूपं कायोत्सर्गादिजैनाऽऽगमोक्तक्रियाकरणे करचरणाऽऽसनमुद्रारूपं, उक्तं च योगविंशिकायाम् - ठाणुनत्थालंबण रहिओ तंतम्मि पंचहा एसो / दुगमित्थ कम्मजोगो तहातियं नाणजोगो उ / / 2 / / एष पञ्चप्रकारो योगः, विरतेषु देशविरतेषु नियमात् भवति / योगपञ्चकं हि चापल्यवारणं, तेन योगवता भवितव्यं, परेषु मार्गानुसारिप्रमुखेषु बीजमात्रं भवति, किञ्चिन्मात्रं भवति / उक्तं च योगविंशिकायाम् - देसे सब्वे य तहा, नियमेणेसो चरित्तिणो होइ / इयरस्स बीयमित्तं, इत्तुञ्चिय केइ इच्छंति / / 3 / / 2 / / अत्र योगोत्पत्तिहेतवः प्रोच्यन्ते - कृपानिर्वेदसंवेग-प्रशमोत्पत्तिकारिणः / भेदाः प्रत्येकमत्रेच्छाप्रवृत्तिस्थिरसिद्धयः / / 3 / / कृपानिर्वेद इति / कृपा अनुकम्पा, दुःखितेषु दुःखमोचनलक्षण आर्द्रतापरिणामः, निर्वेदः भवोद्वेगः चतुर्गतिषु चारकवद्भासनं, संवेगः मोक्षाभिलाषः, प्रशमः कषायाभावः, एते परिणामाः, योगो मोक्षोपायः तस्योत्पत्तिकारिणः करणशीलाः, एतादृक्परिणामपरिणतस्य संसारोद्विग्नस्य, शुद्धाऽऽत्मस्वभावेच्छकस्य, योगसाधना भवति / अत्र योगपञ्चके प्रत्येकं एकैकस्य चत्वारो भेदा भवन्ति, ते च इमे इच्छा-१, प्रवृत्तिः-२, स्थिरता-३, सिद्धिः-४, इत्येवं भेदा ज्ञेयाः, उक्तं च योगविंशिकायाम् - इक्किक्को य चउद्धा, इत्थं पुण तत्तओ मुणेयव्यो / इच्छा-पवित्ति-थिर-सिद्धिभेयओ समयनीईए / / 4 / / इत्यादि / / 3 / / इच्छा तद्वत्कथाप्रीतिः, प्रवृत्तिः पालनं परम् / स्थैर्य बाधकभीहानिः, सिद्धिरन्यार्थसाधनम् / / 4 / / इच्छा तद्वदिति / इच्छा साधकभावाऽभिलाषः, तत् योगपञ्चकं येषु विद्यन्ते ते, तद्वन्तः श्रमणाः तेषां कथासु गुणकथनादिषु प्रीतिः इष्टता / उक्तं च हरिभद्रपूज्यैः - योगविंशिकायाम् - तज्जुत्तकहापीईइ संगया विपरिणामिणी इच्छा xxx / / 5 / / " इति तस्य सम्यग्दर्शनादिगुणप्रवृद्धिहेतुभूतं क्रियाश्रुताऽभ्यासपालनं परम्परा उत्कृष्टा सा प्रवृत्तिः / उक्तं च योगविंशिकायाम् - xxx सव्वत्थुवशमसारं, तप्पालणमो पवित्ती उ / / 5 / /