________________ परिशिष्ट-१ NANINNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN परिशिष्ट-१ उपाध्यायश्रीदेवचन्द्रजीगणिविरचितवृत्तिसमलङ्कृतम् न्यायाचार्य-न्यायविशारद-महोपाध्यायश्रीयशोविजयगणिविरचितम् ज्ञानसाराऽष्टकाऽन्तर्गतं सप्तविंशतितमम् / / योगाऽष्टकम् / / अथ योगाऽष्टकं वितन्यते, अत्र मिथ्यात्वादिहेतुगतमनोवाक्काययोगत्रयं तञ्च कर्मवृद्धिहेतुत्वात् न ग्राह्यं, किन्तु मोक्षसाधनहेतुभूतं शुद्धाऽऽत्मभावनाभावितचेतनावीर्यपरिणामसाधकरतप्रवर्तनरूपं ग्राह्यं, द्रव्यभावभेदं बाह्याऽऽचारविशोधिपूर्वकाऽभ्यन्तराचारशुद्धिरूपम् - मोक्षेण योजनाद्योगः सर्वोप्याचार इष्यते / विशेषस्थानवर्णाऽर्थाऽऽलम्बनैकाग्रयगोचरः / / 1 / / मोक्षेणेति / सकलकर्मक्षयो मोक्षः, तेन योजनात् योगः उच्यते स च सर्वोऽप्याचारः जिनशासनोक्तचरणसप्ततिकरणसप्ततिरूपः, मोक्षोपायत्वात् योग इष्यते, तत्र विशेषेण स्थानं-१, वर्णः-२, अर्थः-३, आलम्बनम्-४, एकाग्रता-५, इति पञ्चप्रकारः योगः मोक्षोपायहेतुः मतः, इत्यनेनाऽवादि परभावाऽऽसक्तभवभ्रमणग्रहात् पुद्गलभोगमग्नानां न भवति, अयमभिप्रायः - यतोऽस्माकं मोक्षः साध्योऽस्ति स च गुरुवचनस्मरणतत्त्वजिज्ञासादियोगेन स्वरूपं निर्मलं निस्सङ्गं परमान्दमयं संस्मृत्य तत्कथाश्रवणप्रीत्यादिकं करोति, स पम्परया सिद्धयोगी भवति, न हि मरुदेवावत् सर्वेषामल्पप्रयासात् सिद्धिः, तस्या हि अल्पाऽऽशातनादोषकारकत्वेन निःप्रयासा सिद्धिः, अन्यजीवानां चिराऽऽशातनाबद्धगाढकर्मणां तु स्थानादिक्रमेणैव भवति / / 1 / / उक्तं च योगविंशिकायाम् - मुक्खेण जोयणाओ, जोगो सव्वो वि धम्मवावारो / परिसुद्धो विन्नेओ, ठाणाइगओ विसेसेणं / / 1 / / अथ योगपञ्चके बाह्यान्तरङ्गसाधकत्वमुपदिशति - कर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः / विरतेष्वेव नियमाद्वीजमात्रं परेष्वपि / / 2 / / * कर्मयोगद्वयमिति तत्र मोक्षसाधने योगद्वयं, कर्मयोगद्वयं क्रियाऽऽचरणायोगरूपं निरूप्यते, तत्र