________________ परिशिष्ट-१ 167 Wwwwwww wwwwwww wwwwwwwwwwwwwwwwwww अथ : प्रीत्याद्यनुष्ठानस्वरूपं षोडशकतो लिख्यते अस्य चाऽनुष्ठानता सांसारिकपरिणतौ, सा च परावृत्य तत्त्वसाधने करणीया / यत्राऽऽदरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः / शेषत्यागेन करोति यञ्च तत्प्रीत्यनुष्ठानम् / / 3 / / इति / प्रीतिलक्षणम् / गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् / क्रियते तत्तुल्यमपि, ज्ञेयं तद्भक्तयनुष्ठानम् / / 4 / / अत्यन्तवल्लभा खलु, पत्नी तद्वद्धिता च जननीति / तुल्यमपि कृत्यमनयोतिं स्यात् प्रीतिभक्तिगतम् / / 5 / / इति भक्तिलक्षणम् / वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु / वचनानुष्ठानमिदं, चारित्रवतो नियोगेन / / 6 / / इति वचनलक्षणम यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः / तदसङ्गानुष्ठानं, भवति त्वेतत्तदावेधात् / / 7 / / इति असङ्गलक्षणम् / चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति / वचनाऽसङ्गाऽनुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् / / 8 / / अभ्युदयफले-चाये, निःश्रेयससाधने तथा चरमे / एतदनुष्ठानानां विज्ञेये इह गतापाये / / 9 / / [षो० 10,3-9] इति एवं क्रमेण योगसाधनारतः सर्वयोगरोधं कृत्वा अयोगी भवति / / 7 / / ... स्थानाधयोगिनस्तीर्थोच्छेदाद्यालम्बनादपि / सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते / / 8 / / स्थानाद्ययोगिन इति / स्थानादिप्रवृत्तियोगरहितस्य सूत्रदानं महादोष इति आचार्या हरिभद्रादयः 'प्रचक्षते' कथयन्ति, कस्मात् ? तीर्थोच्छेदाद्यालम्बनात्, निरास्तिकस्य सूत्रदाने कदाचित् कुप्ररूपणाकरणेन तीर्थोच्छेदो भवति / उक्तं च (योग)विंशिकायाम् - तित्थस्सुच्छेयाइ वि नालंबणमित्थ जं स एमेव / सुत्तकिरियाइ नासो, एसो असमंजसविहाणा / / 14 / / सो एस वंकओ चिय, न य सयं मयमारियाणमविसेसो। एवं पि भावियव्वं इह तित्थुच्छेयभीरुहिं / / 15 / /