________________ योगविशिका गाथा-२० 159 MMMMMNNNNNNNNNNNNN अयं चासम्प्रज्ञातः समाधिर्द्विधा-सयोगिकेवलिभावी अयोगिकेवलिभावी च, आद्यो मनोवृत्तीनां विकल्पज्ञानरूपाणामत्यन्तोच्छेदात् सम्पद्यते / अन्त्यश्च परिस्पन्दनरूपाणाम्, अयं च केवलज्ञानस्य फलभूतः / एतदेवाह, ततश्च केवलज्ञानलाभादनन्तरं च, अयोगयोगः 'वृत्तिबीजदाहायोगाख्यः समाधिर्भवति, प्रज्ञाप्यते परैस्तीर्थान्तरीयैः / कुत इत्याह निरुद्धमशेषं - समस्तं वृत्त्यादि - वृत्तिरुक्तलक्षणा आदिशब्दात्तद्वी च यत्र तत्तथा तञ्च तत्स्वरूपं च - योगस्वरूपं तेनानुवेधात् - ऐक्यानयनादात्मनः / यत्र समाधौ वृत्त्याद्यशेषं निरुध्यत आत्मा च लब्धतत्समाधिस्वरूपानुवेधो भवति सोऽसम्प्रज्ञातो मानसविज्ञानवैकल्यादुच्यत इति / इह द्विधाऽसम्प्रज्ञातः समाधि - (1), सयोगिकेवलिकालभावी - (2), अयोगिकेवलिकालभावी च / तत्राद्योमनोवृत्तीनां विकल्पज्ञानरूपाणां तद्बीजस्य ज्ञानावरणाधुदयरूपस्य निरोधादुत्पद्यते, द्वितीयस्तु सकलाशेषकायादिवृत्तीनां तद्बीजानामौदारिकादिशरीररूपाणामत्यन्तोच्छेदात्सम्पद्यत इति / / 421 / / -योगबिन्दुः सवृत्तिकः / / [5] - तुला - विकल्पस्पन्दरूपाणां वृत्तीनामन्यजन्मनाम् / अपुनर्भावतो रोधः प्रोच्यते वृत्तिसङ्क्षयः / / 25 / / वृ० - विकल्पेति / स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनोऽन्यजन्मनां पवनस्थानीयस्वेतरतथाविधमनःशरीरद्रव्यसंयोगजनितानां विकल्पस्यन्दरूपाणां वृत्तीनां / अपुनर्भावतः पुनरुत्पत्तियोग्यतापरिहारात् / रोधः परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले च वृत्तिसङ्क्षयः प्रोच्यते / तदाह - “अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा अपुनर्भावरूपेण स तु तत्सङ्क्षयो मतः / / 1 / / " / / 25 / / 6- तुला - केवलज्ञानलाभश्च शैलेशीसम्परिग्रहः / मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् / / 26 / / वृ० - केवलेति / स्पष्टः / / 26 / / - द्वा. द्वा., 18 - योगभेदद्वात्रिंशिका सवृत्तिः / / 7- तुला - अथात्रैव वक्तव्यान्तरमाह - .' धर्ममेघोऽमृतात्मा च, भवशत्रुः शिवोदयः / सत्त्वानन्दः परश्चेति, योज्योऽत्रैवार्थयोगतः / / 422 / / वृ० - धर्ममेघो धर्ममेघनामा समाधिविशेषः / अमृतात्मा चाऽमृतभावकारणत्वात् / भवशत्रुः शिवोदयः सत्त्वानन्दः परश्चेत्येवं समाधिविशेषस्तत्तत्तन्त्रान्तरीयशास्त्रसिद्धः योज्यो - योजनीयः अत्रैवाऽध्यात्मादियोगे अर्थयोगतोऽर्थसाङ्गत्यात् / विचित्रावस्थो हि योगः, ततस्तदवस्थामपेक्ष्य को नाम समाधिविशेषस्तत्रान्तर्भावं न लभत इति / / 422 / / अथ सर्वसमाधिफलमाह - मण्डूकभस्मन्यायेन, वृत्तिबीजं महामुनिः / योग्यतापगमाद्दग्ध्वा, ततः कल्याणमश्रुते / / 423 / / वृ० - मण्डूकभस्मन्यायेन दर्दुरशरीरक्षारीकरणदृष्टान्तेन वृत्तिबीजं . शारीरमानसचेष्टानिमित्तं तत्तत्कर्मरूपम् महामुनिः - क्षपकोऽनिवृत्तिबादरादिस्तत्तद्गुणस्थानकस्थः योग्यतापगमात्तत्तत्कर्मसम्बन्धयोग्यतात्यन्तोच्छेदात् दग्ध्वा शुक्लध्यानदावानलेन भस्मभावमापाद्य ततः - सर्वदहनानन्तरम् कल्याणं - निवृत्तिरूपम् अश्रुते - लभते / / 423 / / - योगबिन्दुः सवृत्तिकः / / माघ 26||