________________ 160 योगविंशिका गाथा-२०. अयं च धर्ममेघः, इति पातञ्जलैर्गीयते, अमृतात्मा इत्यन्यैः, भवशत्रुः इत्यपरैः, शिवोदयः इत्यन्यैः, सत्त्वानन्दः इत्येकैः, परश्च इत्यपरैः / क्रमेण उपदर्शितपारम्पर्येण, ततोऽयोगयोगात्, परमं सर्वोत्कृष्टफलं, निर्वाणं भवति / / 20 / / / / इति महोपाध्याय श्रीकल्याणविजयगणिशिष्यमुख्यपण्डित - श्रीजीतविजयगणिसतीर्थ्यपण्डितश्री नयविजयगणिचरणकमलचञ्चरीकपण्डित श्रीपद्मविजयगणिसहोदरोपाध्यायश्रीजसविजयगणिसमर्थितायां विंशिकाप्रकरणव्याख्यायां योगविंशिकाविवरणं सम्पूर्णम् / /