________________ 158 योगविंशिका गाथा-२० NNNNNNNNNN सिद्धेः / बादरं वपुर्योगं त्यक्त्वा सूक्ष्मवाञ्चित्तयोः स्थितिं कृत्वा बादरं काययोगं सूक्ष्मत्वं प्रापयति, स सूक्ष्मकाययोगे पुनः क्षणं क्षणमात्रं स्थितिं कृत्वा सद्यः तत्कालं सूक्ष्मवाञ्चित्तयोः निग्रहं सर्वथा तत्सम्भवाभावं कुरुते, ततः सूक्ष्मे काययोगे क्षणं स्थितिं कृत्वा हि स्फुटं स केवली निजात्मानं सूक्ष्मक्रियं चिद्रूपं स्वयमात्मनैव विन्दति अनुभवति इति श्लोकचतुष्टयार्थः / / 96 / / 97 / / 98 / / 99 / / अथायोगिगुणस्थानस्य स्थितिमाह - अथायोगिगुणस्थाने, तिष्ठतोऽस्य जिनेशिंतुः / लघुपञ्चाक्षरोचारप्रमितैव स्थितिर्भवेत् / / 103 / / वृ० - अथ त्रयोदशगुणस्थानानन्तरं अयोगिगुणस्थानके चतुर्दशे अस्य जिनेशितुः जिनेन्द्रस्य तिष्ठतः अवस्थितस्य लघुपञ्चाक्षरोचारप्रमितैव अइउऋलुवर्णपञ्चकसमुञ्चरणाकालतुल्यैव स्थितिर्भवति / / 103 / / . . अथायोगिगुणस्थाने ध्यानसंभवमाह - तत्रानिवृत्तिशब्दान्तं, समुच्छिन्नक्रियात्मकम् / चतुर्थं भवति ध्यानमयोगिपरमेष्ठिनः / / 104 / / वृ० - तत्र तस्मिन्नयोगिगुणस्थानेऽयोगिपरमेष्ठिनश्चतुर्थं ध्यानं समुच्छिन्नक्रियात्मकं वक्ष्यमाणस्वरूपं भवति कथम्भूतं ? अनिवृत्तिशब्दान्तं अनिवृत्तिशब्दोऽन्ते यस्य तत्समुच्छिन्नक्रियानिवृत्तिनामकं चतुर्थं ध्यानमिति ||104 / / अथास्य चतुर्थध्यानस्य स्वरूपमाह - समुच्छिन्ना क्रिया यत्र, सूक्ष्मयोगात्मिकाऽपि हि / समुच्छिन्नक्रियं प्रोक्तं, तद्द्वारं मुक्तिवैश्मनः / / 105 / / वृ० - यत्र ध्याने सूक्ष्मयोगात्मिकाऽपि सूक्ष्मकाययोगरूपाऽपि क्रिया समुच्छिन्ना सर्वथा निवृत्ता तत्समुच्छित्रक्रियं नाम चतुर्थं ध्यानं प्रोक्तं, कथम्भूतं ? मुक्तिवेश्मनः सिद्धिसौधस्य द्वारं द्वारोपममिति / / 105 / / - गुणस्थानक क्रमारोहः सवृत्तिः / / | 4 -तुला - A - असम्प्रज्ञातनामा तु सम्मतो वृत्तिसङ्क्षयः / सर्वतोऽस्मादकरणनियमः पापगोचरः / / 21 / / वृ० - असम्प्रज्ञातेति / असम्प्रज्ञातनामा तु समाधिः वृत्तिसङ्क्षयः सम्मतः, सयोग्ययोगिकेवलित्वकाले मनोविकल्पपरिस्पन्दरूपवृत्तिक्षयेण तदुपगमात् / तदुक्तं - “असम्प्रज्ञात एषोऽपि समाधिर्गीयतेपरैः / निरुद्धाशेषवृत्त्यादितत्स्वरूपानुवेधतः / / 1 / / " (यो. बिं. 421) इति / 'धर्ममेघः' इत्यप्यस्यैव नाम यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा विवेकख्यातौ धर्ममशुक्लकृष्णं मेहति सिञ्चतीति व्युत्पत्तेः / तदुक्तं - “सम्प्रख्याने (प्य)कुसीदस्य सर्वथा विवेकख्यातौ धर्ममेघसमाधिरिति” (4-29) / एवमन्येषामपि तत्तत्तन्त्रसिद्धानां शब्दानामर्थोऽत्र यथायोगं भावनीयः / तदाह - “धर्ममेघोऽमृतात्मा च भवशत्रुः शिवोदयः / सत्त्वानन्दं परश्चेति योज्योऽत्रैवार्थयोगतः / / 1 / / " (यो. बिं. 422) अस्माद् वृत्तिसङ्क्षयात् फलीभूतात् / सर्वतः सर्वैः प्रकारैः / पापगोचरः पापविषयः। अकरणनियमोऽनुमीयते इति शेषः / नरकगमनादिवृत्तिनिवृत्तेर्महारम्भपरिग्रहादिहेत्वकरणनियमेनैवोपपत्तेः / / 21 / / / - द्वा. द्वा., 20 - योगावतारद्वात्रिंशिका सवृत्तिः / / B - असम्प्रज्ञात एषोऽपि, समाधिर्गीयते परैः / निरुद्धाशेषवृत्त्यादितत्स्वरूपानुवेधतः / / 421 / / वृ० - असम्प्रज्ञातः सम्प्रज्ञातविलक्षणः एषोऽप्येष एव योगः कैवल्यलक्षणावस्थान्तरप्राप्तः समाधिर्गीयते -