________________ योगविंशिका गाथा-२० 157 तस्मिन् द्वितीये शुक्लध्याने वर्तमानो ध्यानी-ध्यानात् समरसीभावस्तदेकीकरणं मतं / आत्मा यदपृथक्त्वेन, लीयते परमात्मनि / / / / तं समरसीभावं धत्ते धारयति, कुतः ? स्वात्मानुभूतितः स्वस्यात्मनोऽनुभूतिरनुभवनं स्वात्मानुभूतिस्तस्याः / / 79 / / अथ क्षीणमोहगुणस्थानाद्धाऽवसाने यत्करोति तदाह - इत्येतद्ध्यानयोगेन, प्लुष्यत्कर्मेन्धनोत्करः / निद्राप्रचलयो शमुपान्त्ये कुरुते क्षणे / / 8 / / वृ० - इत्येतत्पूर्वोक्तध्यानयोगेन द्वितीयशुक्लध्यानसमायोगेन प्लुष्यत्कर्मेन्धनोत्करो दह्यमानकर्मसमिदुत्करो योगीन्द्रः उपान्त्ये अन्त्यसमीपसमये निद्राप्रचलयोः नाशं करोति क्षयं कुरुते / / 80 / / अथान्त्यसमये यत्करोति तदाह - - अन्त्ये दृष्टिचतुष्कं च, दशकं ज्ञानविघ्नयोः / क्षपयित्वा मुनिः क्षीणमोहः स्यात्केवलात्मकः / / 81 / / वृ० - क्षपको मुनिः क्षीणमोहस्यान्त्ये समये दृष्टिचतुष्कं चक्षुर्दर्शनादिदर्शनचतुष्कं ज्ञानान्तरायदशकं चेत्येताश्चतुर्दश प्रकृतीः क्षपयित्वा क्षीणमोहांशः सन् केवलात्मकः स्यादिति / तथा क्षीणमोहगुणस्थानस्थो जीवो दर्शनचतुष्कज्ञानान्तरायदशकोञ्चयशोरूपषोडशबन्धव्यवच्छेदादेकसातवेद्यबन्धकः, तथा संज्वलनलोभऋषभनाराचनाराचोदयव्यवच्छेदात्सप्तपञ्चाशत्प्रकृतेर्वेदयिता, लोभसत्ताक्षपकत्वादेकोत्तरशतसत्ताको भवति / / 81 / / इति क्षपकस्य द्वादशम् / / 81 / / अथ समुद्घातान्निवृत्तो यत्करोति तदाह - समुद्घातानिवृत्तोऽसौ, मनोवाक्काययोगवान् / ध्यायेद्योगनिरोधार्थं, शुक्लध्यानं तृतीयकम् / / 14 / / वृ० - असौ मनोवाक्काययोगवान् केवली-सयोगिकेवली समुद्घातानिवृत्तः सन् योगनिरोधार्थं योगनिरोधनिमित्तं तृतीयं शुक्लध्यानं ध्यायेत् / / 94 / / अथ तदेव तृतीयं शुक्लध्यानमाह - आत्मस्पन्दात्मिका सूक्ष्मा, क्रिया यत्रानिवृत्तिका / तत्तृतीयं भवेच्छुक्लं, सूक्ष्मक्रियानिवृत्तिकम् / / 15 / / वृ० - तस्मिन्नवसरे तस्य केवलिनस्तृतीयं सूक्ष्मक्रियाऽनिवृत्तिकनाम शुक्लध्यानं भवति, तत्किं ? यत्रात्मस्पन्दात्मिका सूक्ष्मा क्रियाऽनिवृत्तिका भवति, कोऽर्थः ? - आत्मस्पन्दात्मिका क्रियापि सूक्ष्मत्वादनिवृत्तिका भवति, सूक्ष्मत्वं मुक्त्वा पुनः स्थूलत्वं न भजतीत्यर्थः / / 96 / / अथ मनोवचःकाययोगानामपि यथा यथा सूक्ष्मत्वं करोति तथा तथा श्लोकचतुष्टयेनाह - बादरे काययोगेऽस्मिन्, स्थितिं कृत्वा स्वभावतः / सूक्ष्मीकरोति वाञ्चित्तयोगयुग्मं स बादरम् / / 16 / / त्यक्त्वा स्थूलं वपुर्योगं, सूक्ष्मवाञ्चित्तयोः स्थितिम् / कृत्वा नयति सूक्ष्मत्वं, काययोगं तु बादरम् / / 97 / / सुसूक्ष्मकाययोगेऽथ, स्थितिं कृत्वा पुनः क्षणम् / निग्रहं कुरुते सद्यः, सूक्ष्मवाञ्चित्तयोगयोः / / 18 / / ततः सूक्ष्मे वपुर्योगे, स्थितिं कृत्वा क्षणं हि सः / सूक्ष्मक्रियं निजात्मानं, चिद्रूपं विन्दति स्वयम् / / 19 / / चतुर्भिः कुलकम् / वृ० - स केवली सूक्ष्मक्रियाऽनिवृत्तिनामकतृतीयशुक्लध्यानध्याता अचिन्त्यात्मवीर्यशक्तयाऽस्मिन् बादरे काययोगे स्वभावतः स्थितिं कृत्वा बादरं वाञ्चित्तयोगयुग्मं स्थूलवचोमनोयोगयुगलं सूक्ष्मीकरोति, ततः स्थूलं