________________ 154 योगविंशिका गाथा-२० निश्चयात्मकत्वेनात्मपर्यायाणामर्थानां च द्वीपादीनामिह ज्ञायमानत्वादर्थतो नानुपपन्नम् / ' वृ० - यदेति / यदा रजस्तमसोर्लेशेनानुविद्धं मनोऽन्तःकरणतत्त्वं भाव्यते तदा भाव्यस्य भावनाविषयस्य सुखस्य सुखप्रकाशमयस्य सत्त्वस्योद्रेकादाधिक्याबिच्छक्तेर्गुणभावतोऽनुद्रेकात् / / 5 / / सानन्दोऽत्रैव भण्यन्ते विदेहा बद्धवृत्तयः / देहाहङ्कारविगमात् प्रधानमुपदर्शिनः / / 6 / / वृ० - सानन्द इति / सानन्दः समाधिर्भवत्युक्तहेतुतः / अत्रैव समाधौ बद्धवृत्तयो विदेहा भण्यन्ते / देहाहङ्कारविगमाद् बहिर्विषयावेशनिवृत्तेः / प्रधानमुपदर्शिनः प्रधानपुरुषतत्त्वाविर्भावकाः / / 6 / / सत्त्वं रजस्तमोलेशानाक्रान्तं यत्र भाव्यते / स सास्मितोऽत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता / 7 / / वृ० - सत्त्वमिति / यत्र रजस्तमोलेशेनानाक्रान्तं सत्त्वं भाव्यते, स सास्मितः समाधिः / अत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता / भाव्यस्य शुद्धसत्त्वस्य न्यग्भावाञ्चितिशक्तेश्च उद्रेकात् सत्तामात्रावशेषत्वाच्यात्र सास्मितत्वोपपत्तिः / न चाहङ्कारास्मितयोरभेदः शङ्कनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयं वेदयते सोऽ-' हङ्कारः, यत्रान्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमेव भाति साऽस्मितेति / / 7 / / अत्रैव कृततोषा ये परमात्मानवेक्षिणः / चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् / / 8 / / वृ० - अत्रैवेति / अत्रैव सास्मितसमाधावेव ये कृततोषाः परमात्मानवेक्षिणः परमपुरुषादर्शिनः, ते हि . चित्ते प्रकृतौ लयं गते सति प्रकृतिलया उच्यन्ते / / 8 / / गृहीतृग्रहणग्राह्यसमापत्तित्रयं किल / अत्र सास्मितसानन्दनिर्विचारान्तविश्रमम् / / 9 / / वृ० - गृहीत्रिति / सास्मितसमाधिपर्यन्ते परं पुरुषं ज्ञात्वा भावनायां विवेकख्यातौ गृहीतृसमापत्तिः / सानन्दसमाधिपर्यन्ते ग्रहणसमापत्तिः / निर्विचारसमाधिपर्यन्ते च ग्राह्यसमापत्तिर्विश्रान्तेत्येतदर्थः / / 9 / / ___ - द्वा. द्वा., 20 - योगावतारद्वात्रिंशिका सवृत्तिः / / | 3 |- क्षपकश्रेणीभावि तत्पश्चात्भावि च सभेदं शुक्लध्यानस्वरूपं गुणस्थानकक्रमारोहग्रन्थानुसारेण ज्ञायते, तचेदं / . - सम्पा० / / अथ भावस्यैव प्राधान्यमाह - प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता / क्षपकस्य यतः श्रेण्यारोहे भावो हि कारणम् / / 59 / / वृ० - अत्र श्रेण्यारोहे क्षपकश्रेण्यारोहविषये प्राणायामक्रमप्रौढि: पवनाभ्यासक्रमप्रगल्भता रूढ्यैव प्रसिद्धिमात्रतयैव दर्शिता, 'यतः' यस्मात्कारणात् 'हिः' स्फुटं क्षपकस्य भाव एव केवलोद्गमकारणं, न तु प्राणायामादिडम्बरः, यदुक्तं चर्पटिनापि 'नासाकन्दं नाडीवृन्दं, वायोश्चारः प्रत्याहारः / प्राणायामो बीजग्रामो, ध्यानाभ्यासो मन्त्रन्यासः / / 1 / / हत्पद्मस्थं भ्रूमध्यस्थं, नासाग्रस्थं श्वासान्तःस्थम् / तेजःशुद्धं ध्यानं बुद्धं, ॐकाराख्यं सूर्यप्रख्यम् / / 2 / / ब्रह्माकाशं शून्याभासं, मिथ्याजल्पं चिन्ताकल्पम् / कायाक्रान्तं चित्तभ्रान्तं, त्यक्त्वा सर्वं मिथ्यागर्वम् / / 3 / / गुर्वादिष्टं चिन्तोत्सृष्टं, देहातीतं भावोपेतम् / त्यक्तद्वन्द्वं नित्यानन्दं, शुद्धं तत्त्वं जानीहि त्वम् / / 4 / / ' अन्यञ्च - 'ॐकाराभ्यसनं विचित्रकरणैः प्रणस्य वायोर्जयात्, तेजश्चिन्तनमात्मकायकमले शून्याम्बरालम्बनम् / त्यक्त्वा सर्वमिदं कलेवरगतं चिन्तामनोविभ्रमं, तत्त्वं पश्यत जल्पकल्पनकलातीतं स्वभावस्थितम् / / 1 / / ' / / 59 / /