________________ योगविंशिका गाथा-२० 153 ___ एष एव सम्प्रज्ञातः समाधि-स्तीर्थान्तरीयैर्गीयते, एतदपि सम्यग् - यथावत् प्रकर्षेण सवितर्क वृ० उपा० - द्विविधोऽप्ययं अध्यात्म-भावना-ध्यान-समतावृत्तिक्षयभेदेन पञ्चधोक्तस्य योगस्य पञ्चभेदेऽवतरति / वृत्तिक्षयो ह्यात्मनः कर्मसंयोगयोग्यतापगमः, स्थूलसूक्ष्मा ह्यात्मनश्चेष्टा वृत्तयः, तासां मूलहेतुः कर्मसंयोगयोग्यता, सा चाकरणानियमेन ग्रन्थिभेदे उत्कृष्टमोहनीयबन्धव्यवच्छेदेन तत्तद्गुणस्थाने तत्तत्प्रकृत्यात्यन्तिकबन्धव्यवच्छेदस्य हेतुना क्रमशो निवर्तते / तत्र पृथक्त्ववितर्कसविचारैकत्ववितर्काविचाराख्यशुक्लध्यानभेदद्वये सम्प्रज्ञातः समाधिर्वृत्त्यर्थानां सम्यग्ज्ञानात् / तदुक्तम् - “समाधिरेष एवान्यैः सम्प्रज्ञातोऽभिधीयते / सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा / / 1 / / " (419 यो. बिं.) निर्वितर्कविचारानन्दास्मितानि सस्तु पर्यायविनिर्मुक्तशुद्धद्रव्यध्यानाभिप्रायेण व्याख्येयः, यन्नयमालम्ब्योक्तम् - “का अरइ ? के आणंदे ? इत्थं पि अग्गहे चरे” (आचा. श्रु-१, अ-३, उद्दे-३) इत्यादि / क्षपकश्रेणिपरिसमाप्तौ केवलज्ञानलाभस्त्वसम्प्रज्ञातः समाधिः, भावमनोवृत्तीनां ग्राह्यग्रहणाकारशालिनीनामवग्रहादिक्रमेण तत्र सम्यक्परिज्ञानाभावात् / अत एव भावमनसा संज्ञाऽभावाद् द्रव्यमनसा च तत्सद्भावात्केवली नोसंज्ञीत्युच्यते / तदिदमुक्तं योगबिन्दौ - “असम्प्रज्ञात एषोऽपि समाधिर्गीयते परैः / निरुद्धाशेषवत्त्यादि - तत्स्वरूपानवेधतः / / 1 / / धर्ममेघोऽमतात्मा च भवशत्रु शिवोदयः / सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्थयोगतः / / 2 / / " (420-21) इत्यादि / संस्कारशेषत्वं चात्र भवॉपग्राहिकर्मांशरूपसंस्कारापेक्षया व्याख्येयम्, मतिज्ञानभेदस्य संस्कारस्य तदा मूलत एव विनाशात् / इत्यस्मन्मतनिष्कर्ष इति दिक् / - पातञ्जलयोगदर्शन-व्यासभाष्यम् - उपा. श्री यशोविजयविरचितवृत्तिश्च / / 2- तुला - सम्प्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते / सम्यक् प्रज्ञायते येन सम्प्रज्ञातः स उच्यते / / 1 / / वृ० - सम्प्रज्ञात इति / सम्प्रज्ञातोऽपरोऽसम्प्रज्ञातश्चेति अन्यैः पातञ्जलैरयं योगो द्विधेष्यते / सम्यक् संशयविपर्ययानध्यवसायरहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्य स्वरूपं येन स सम्प्रज्ञात उच्यते / / 1 / / वितर्केण विचारेणानन्देनास्मितयान्वितः / भाव्यस्य भावनाभेदात्सम्प्रज्ञातश्चतुर्विधः / / 2 / / वृ० - वितर्केणेति / वितर्केण विचारेणानन्देनास्मितयाऽन्वितः क्रमेण युक्तः / भाव्यस्य भावनाया विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनलक्षणाया भेदात् / सम्प्रज्ञातश्चतुर्विधो भवति / तदुक्तम् 'वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात इति” (यो. सू. 1-17) / / 2 / / पूर्वापरानुसन्धानाच्छब्दोल्लेखाश्च भावना / महाभूतेन्द्रियार्थेषु सवितर्कोऽन्यथापरः / / 3 / / वृ० - पूर्वेति / पूर्वापरयोरर्थयोरनुसन्धानाच्छब्दोल्लेखाच्छब्दार्थोपरागाञ्च यदा भावना प्रवर्तते महाभूतेन्द्रियलक्षणेष्वर्थेषु स्थूलविषयेषु तदा सवितर्कः समाधिः / अन्यथाऽस्मिन्नेवालम्बने पूर्वापरानुसन्धानशब्दार्थोल्लेखशून्यत्वेन भावनायामपरो निर्वितर्कः / / 3 / / तन्मात्रान्तःकरणयोः सूक्ष्मयोर्भावना पुनः / दिक्कालधर्मावच्छेदात् सविचारोऽन्यथापरः / / 4 / / वृ० - तन्मात्रेति / तन्मात्रान्तःकरणयोः सूक्ष्मयोर्भाव्ययोर्दिक्कालधर्मावच्छेदादेशकालधर्मावच्छेदेन भावना पुनः सविचारः समाधिः / अन्यथा तस्मिन्नेवालम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन भावनायामपरो निर्विचारः / / 4 / / यदा रजस्तमोलेशानुविद्धं भाव्यते मनः / तदा भाव्यसुखोद्रेकाञ्चिच्छक्तेर्गुणभावतः / / 5 / /